उत्सङ्गे वत्स तिष्ठेति वदत्य् अथ महीपतौ । भूमौ परिजनास्तीर्णे सो ऽंशुके ऽथ न्यविक्षत
पुत्र प्राप्तविवेकस् त्वं कल्याणानां च भाजनम् । जनवज् जीर्णया बुद्ध्या खेदायात्मा न दीयते
वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता । पदम् आसाद्यते पुण्यं न मोहम् अनुधावता
तावद् एवापदो दूरे तिष्ठन्ति परिपेलवाः । यावद् एव न मोहस्य प्रसरः पुत्र दीयते
राजपुत्र महाबाहो शूरस् त्वं विजितास् त्वया । दुरुच्छेदा दुरारम्भा अप्य् अमी विषयारयः
किम् अतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे । विनिमज्जसि कल्लोलगहने जाड्यशालिनि
चलन्नीलोत्पलव्यूहसमलोचन लोलताम् । ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि
किंनिष्ठाः कियता केन कियन्तः कारणेन ते । आधयो नु विलुम्पन्ति मनो गेहम् इवाखवः
मन्ये नानुचितानां त्वम् आधीनां पदम् उत्तमः । आपत्सु चाप्तो यो धीरो निर्जितास् तेन चाधयः
यथाभिमतम् आशु त्वं ब्रूहि प्राप्स्यसि चानघम् । सर्वम् एव पुनर् येन तव भेत्स्यन्ति नाधयः
इत्य् उत्तमस्य स मुने रघुवंशकेतुर् आकर्ण्य वाक्यम् उचितार्थविलासगर्भम् । तत्याज खेदम् अभिगर्जति वारिवाहे बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः
इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः । उवाच वचनं चारु धीरपूर्णार्थमन्थरम्
भगवन् भवता पृष्टो यथावद् अधुना किल । कथयाम्य् अहम् अज्ञो ऽपि को लङ्घयति सद्वचः
अहं तावद् अयं जातो निजे ऽस्मिन् पितृसद्मनि । क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश् च संस्थितः
ततस् सदाचारपरो भूत्वाहं मुनिनायक । विहृतस् तीर्थयात्रार्थम् उर्वीम् अम्बुधिमेखलाम्
एतावताथ कालेन संसारास्थाम् इमां मम । स्वविवेको जहारान्तर् ओघस् तटलताम् इव
विवेकेन परीतात्मा तेनाहं तदनु स्वयम् । भोगनीरसया बुद्ध्या प्रविचारितवान् इदम्
किं नामेदं वत सुखं यो ऽयं संसारसंसृतिः । जायते मृतये लोको म्रियते जननाय च
स्वस्थितास् सर्व एवेमे सचराचरचेष्टिताः । आपदां पतयः पापा भावा विभवभूमयः
अयश्शलाकासदृशाः परस्परम् असङ्गिनः । श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया
मनस्समायत्तम् इदं जगद् आभोगि दृश्यते । मनश् चासद् इहाभाति केन स्मः परिमोहिताः
असतैव वयं कष्टं विक्रीता मूढबुद्धयः । मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव
न केनचिच् च विक्रीता विक्रीता इव संस्थिताः । वत मूढा वयं सर्वे जानाना अपि शम्बरम्
किम् एतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः । मुधैव हि वयं मोहात् संस्थिता बद्धभावनाः
अज्ञाते बहुकालेन व्यर्थ एव वयं घने । मोहे निपतिता मुग्धाश् श्वभ्रे मुग्धमृगा इव
किं मे राज्येन किं भोगैः को ऽहं किम् इदम् आगतम् । यन् मिथ्यैवास्तु तन् मिथ्या कस्य नाम किम् आगतम्
एवं विमृशतो ब्रह्मन् सर्वेष्व् एव ततो मम । भावेष्व् अरतिर् आयाता पथिकस्य मरुष्व् इव
तद् एतद् भगवन् ब्रूहि किम् इदं परिनश्यति । किम् इदं जायते भूयः किम् इदं परिवर्धते
जरामरणम् आपच् च जननं सम्पदस् तथा । आविर्भावतिरोभावैर् विवर्तन्ते पुनः पुनः
भावैस् तैर् एव तैर् एव तुच्छैर् वयम् इमे किल । पश्य जर्जरतां नीता वातैर् इव गिरिद्रुमाः