सालतालीतमालाढ्यनीलपल्वलमालितम् । वलीवलयविन्यासविलासवलितध्रुवम्
आलोलपल्लवलतावलितालयानाम् उत्फुल्लकन्दलसिलिन्ध्रसुगन्धितानाम् । साराववारिवलनाकुलगोकुलानाम् आनीलषष्पकुसुमस्थलशोभितानाम्
तीरद्रुमप्रकरगुप्तसरिद्रयाणाम् नीरन्ध्रपुष्पितलतोग्रवितानकानाम् । उद्यानकुन्दमकरन्दसुगन्धितानाम् गन्धान्धषट्पदकुलान्तरिताम्बुदानाम्
सौन्दर्यतर्जितपुरन्दरमन्दिराणाम् राजीवराजिरजसारुणिताम्बराणाम् । रंहोवहद्गिरिनदीरवघर्घराणाम् कुन्दावदातजलदद्युतिभासुराणाम्
सौधस्थलोल्लसितपुष्पलतालयानां लीलाविलोलकलकण्ठविहङ्गमानाम् । उल्लासिकौसुमदलास्तरणस्थयूनाम् आपादम् आवलितमाल्यविलासिनीनाम्
सर्वं तु सुन्दरनवाङ्कुरदन्तुराणाम् हेलोल्लसद्वनलताकुलमार्गगाणाम् । सञ्जातकोमललतोपलसङ्कुलानाम् वर्षत्पयोदपटसंवलितालयाणाम्
नीहारहारिहरितस्थलविस्तृतानाम् सौधस्थमेघतडिदाकुलिताङ्गनानाम् । नीलोत्पलोल्लसितसौरभसुन्दराणाम् हुङ्कारहारिहरितोन्मुखगोकुलानाम्
विध्वस्तमुग्धमृगशावगृहाङ्गनानाम् उन्मत्तबर्हिगणशीकरनिर्झराणाम् । सौगन्ध्यमत्तपवनाहृतसौरभानाम् वप्रौषधिज्वलनविस्मृतदीपकानाम्
कोलाहलाकुलकुलायकुलाकुलानाम् कुल्याकुलाकलकलाश्रुतसङ्कथानाम् । मुक्ताफलप्रकरसुन्दरबिन्दुपातशीताखिलद्रुमलतातृणपल्लवानाम्
लक्ष्मीम् अनस्तमितपुष्पविकासभाजाम् । शक्नोति कः कलयितुं गिरिमन्दिराणाम्
तत्र ते पेततुर् देव्यौ ग्रामे ऽन्तश्शीतलात्मनि । भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि
कालेनैतावता लीला तेनाभ्यासेन साभवत् । शुद्धज्ञानैकदेहत्वात् त्रिकालामलदर्शिनी
अथ सस्मार सर्वास् ताः प्राक्तनीस् संसृतेर् गतीः । स्वास् स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः
देवि देशम् इमं दृष्ट्वा त्वत्प्रसादात् स्मराम्य् अहम् । इह तत् प्राक्तनं सर्वं चेष्टितं वेष्टितान्तरम्
इहाभूवम् अहं जीर्णा सिरालाङ्गी कृशासिता । ब्राह्मणी शुष्कदर्भाग्रभेदरूक्षकरोदरा
भर्तुः कुलकरी भार्या दोहमन्थानशोभिनी । माता सकलपुत्राणाम् अतिथीनां प्रियङ्करी
देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः । गर्गरीचरुकुम्भादिभाण्डोपस्करशोधिनी
नित्यम् अन्नलवाक्तैककाचकम्बुप्रकोष्ठका । जामातृदुहितृभ्रातृपितृमातृप्रपूजिनी
आदेहं सद्मवृत्त्यैव प्रक्षीणदिनयामिनी । वाचं चिरं चिरम् इति वदन्त्य् अनिशम् आकुला
काहं क इव संसार इति स्वप्ने ऽप्य् असङ्कथा । जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः
एकनिष्ठा समिच्छाकगोमयेन्धनसञ्चये । म्लानकम्बलसंवीतसिरालक्षा सगात्रिका
तर्णकीकर्णजाहस्थक्रिमिनिष्कासतत्परा । गृहशाकवनासेकसत्वरा गृहकर्मणां
नीलतीरतरङ्गाक्ततृणतर्पिततर्णका । प्रतिक्षणं गृहद्वारकृतचन्दनवर्णका
नीत्यर्थं गृहभृत्यानां सादिनां कृतवाच्यता । मर्यादानियमाद् अब्धिवेलेवानिशम् अच्युता
जीर्णपर्णसवर्णैककर्णदोलाधिरूढया । कष्टतापजराभीतजीवभृत्येव चिह्निता
इत्य् उक्त्वा सञ्चरन्ती सा शिखरिग्रामकोटरे । सञ्चरन्त्यास् सरस्वत्या दर्शयाम् आस सा स्वयम्
इयं मे पाटलाषण्डमण्डिता पुष्पवाटिका । इयं मे पुष्पितोद्यानमण्डपाकारवाटिका
इयं पुष्करिणीतीरद्रुमग्रथिततर्णका । इयं सा कर्णिकानाम्नी तर्णिका भुक्तपर्णिका
इयं सा मेदसा क्षीणा वराकी जलहारिका । अद्याष्टमं दिनं बाष्पपूर्णाक्षी परिरोदिति
इह देवि मया प्रोक्तम् इहोषितम् इह स्थितम् । इह सुप्तम् इहातीतम् इदं दत्तम् इहाहृतम्