क्षौमानुतस्तास्वरया मञ्जरीपूर्णकर्णया । क्षुत्क्षान्तया भ्रान्तरथ्यं ग्रामखेटककान्तया
सरित्तरङ्गसङ्घट्टसंरावाश्रुतसङ्कथम् । कर्णजाड्यघनत्रासवाञ्छितैकान्तसंस्थितिम्
दधिलिप्तास्यहस्तांसैर् बद्धपुष्पलताधरैः । नग्नैर् गोमयपङ्काङ्कैर् बालैर् आकुलचत्वरम्
तीरशाद्वलवल्लीनां दोलान्दोलनहारिभिः । तरङ्गैर् वाह्यमानाम्बुलेखिकाङ्कितसैकतम्
दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् । काल्यभक्तार्थनोद्बाष्पजर्जराम्बरबालकम्
गोमयासिक्तवलयकरवारीकृतक्रुधम् । धम्मिल्लवलनाव्यग्रभूतस्त्रीविहसज्जनम्
दान्तपुच्छच्छटच्छन्नपतत्ककुदवायसम् । गृहरथ्याङ्गनद्वारकीर्णकुन्दकरण्डकम्
गृहपार्श्वस्थितश्वभ्रजातैः कुसुमितद्रुमैः । प्रत्यहं प्रातर् आगुल्फम् आकीर्णकुसुमाजिरम्
सरच्चामरसारङ्गचलजङ्गलषण्डकम् । गुञ्जानिकुञ्जसञ्जातशष्पसुप्तमृगार्भकम्
एकान्तरास्तवत्सैककर्णस्पन्दास्तमक्षिकम् । गोपोच्छिष्टीकृतदधिसम्पर्कास्पन्दमक्षिकम्
समस्तसद्मसु क्षीणमाक्षिकाक्षिप्तमक्षिकम् । फुल्लाशोकद्रुमोद्द्योतकृतलाक्षिकमन्दिरम्
शीकरासारमरुता नित्यार्द्रविकचद्द्रुमम् । कदम्बमुकुलप्रोतसप्तच्छदच्छदोत्करम्
वृतिव्रातलताफुल्लकेतकोत्करमालिनम् । बृहत्प्रणालीपटलीरणद्रुटरुटारवम्
वातायनगुहानिर्यत्सौधविश्रान्तवारिदम् । पूर्णपुष्करिणीपङ्क्तिपूतराजपथान्तरम्
नीरन्ध्रविटपच्छायाशीतलामलशाद्वलम् । सर्वपुष्पास्रवद्बिन्दुप्रतिबिम्बिततारकम्
अनारतपतत्पुष्पहिमवर्षसितालयम् । विचित्रमञ्जरीपुष्पपत्त्रपल्वलपादपम्
गृहकक्ष्यान्तरालीनमेघगुप्तचिरण्टिकम् । सौधस्थमेघविद्युद्भिर् अनादेयप्रदीपकम्
कन्दरानिलझाङ्कारघनघुङ्घुममण्डपम् । चरच्चकोरहारीतहरिणीहारिमन्दिरम्
उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः । मरुद्भिर् मन्दम् आदातुम् आरब्धैर् लोलपल्लवम्
लावकालापलीलायाम् आलीनललनाकुलम् । कोककोकिलकाकोलकोलाहलसमाकुलम्
सालतालीतमालाढ्यनीलपल्वलमालितम् । वलीवलयविन्यासविलासवलितध्रुवम्
आलोलपल्लवलतावलितालयानाम् उत्फुल्लकन्दलसिलिन्ध्रसुगन्धितानाम् । साराववारिवलनाकुलगोकुलानाम् आनीलषष्पकुसुमस्थलशोभितानाम्
तीरद्रुमप्रकरगुप्तसरिद्रयाणाम् नीरन्ध्रपुष्पितलतोग्रवितानकानाम् । उद्यानकुन्दमकरन्दसुगन्धितानाम् गन्धान्धषट्पदकुलान्तरिताम्बुदानाम्
सौन्दर्यतर्जितपुरन्दरमन्दिराणाम् राजीवराजिरजसारुणिताम्बराणाम् । रंहोवहद्गिरिनदीरवघर्घराणाम् कुन्दावदातजलदद्युतिभासुराणाम्
सौधस्थलोल्लसितपुष्पलतालयानां लीलाविलोलकलकण्ठविहङ्गमानाम् । उल्लासिकौसुमदलास्तरणस्थयूनाम् आपादम् आवलितमाल्यविलासिनीनाम्
सर्वं तु सुन्दरनवाङ्कुरदन्तुराणाम् हेलोल्लसद्वनलताकुलमार्गगाणाम् । सञ्जातकोमललतोपलसङ्कुलानाम् वर्षत्पयोदपटसंवलितालयाणाम्
नीहारहारिहरितस्थलविस्तृतानाम् सौधस्थमेघतडिदाकुलिताङ्गनानाम् । नीलोत्पलोल्लसितसौरभसुन्दराणाम् हुङ्कारहारिहरितोन्मुखगोकुलानाम्
विध्वस्तमुग्धमृगशावगृहाङ्गनानाम् उन्मत्तबर्हिगणशीकरनिर्झराणाम् । सौगन्ध्यमत्तपवनाहृतसौरभानाम् वप्रौषधिज्वलनविस्मृतदीपकानाम्
कोलाहलाकुलकुलायकुलाकुलानाम् कुल्याकुलाकलकलाश्रुतसङ्कथानाम् । मुक्ताफलप्रकरसुन्दरबिन्दुपातशीताखिलद्रुमलतातृणपल्लवानाम्
लक्ष्मीम् अनस्तमितपुष्पविकासभाजाम् । शक्नोति कः कलयितुं गिरिमन्दिराणाम्