गृह एव यथा स्वप्ने नगरं भाति भास्वरम् । तथैतद् असद् एवान्तश् चिद्धातौ भाति भास्वरम्
यथा मरुजले ऽम्बुत्वं कटकत्वं च हेमनि । असत् सद् इव भातीदं तथा दृश्यत्वम् आत्मनि
एवम् आकलयन्त्यौ ते ललने ललनाकृती । गृहान् निर्ययतुर् बाह्यं चारुचङ्क्रमणक्रमैः
अदृश्ये ग्रामलोकेन प्रेक्षमाणे पुरो गिरिम् । चुम्बिताकाशकुहरं संस्प्र्ष्टादित्यमण्डलम्
नानावर्णाखिलोत्फुल्लविचित्रवनकम्बलम् । नानानिर्झरनिर्धूतकूजद्वनविहङ्गमम्
विचित्रमञ्जरीपुञ्जपिञ्जराम्बुदमण्डलम् । अभ्रकच्छगुलुच्छाग्रविश्रान्तखगसारवम्
सारवञ्जुलविस्तारगुप्ताखिलसरित्तटम् । असमाप्तशिलाश्वभ्रलतानर्तनमारुतम्
पुष्पाभ्रपिहिताकाशकोशकुट्टकवारिदम् । पतद्दीर्घसरित्स्रोतस्सितमुक्ताकलापकम्
चलद्वृक्षवनव्यूहवातघट्टितदिक्तटम् । नानावनाकुलोपान्तच्छायासततशीतलम्
अथ ते ललने तत्र तदा ददृशतुस् स्वयम् । तं गिरिग्रामकं व्योम्नस् स्वर्गखण्डम् इव च्युतम्
वहत्प्रणालीपटलं पूर्णपुष्करिणीजलम् । द्विजैः कुरुकुचैः कूजत् सुषिरश्वभ्रकच्छलम्
गर्जद्गोवृन्दहुङ्कारकरालाखिलकुञ्जकम् । गुञ्जागुल्मकषण्डाढ्यं सच्छायघनमारुतम्
दुष्प्रवेशार्ककिरणं पृथङ् नीहारधूसरम् । उदञ्चन्मञ्जरीपुञ्जजटालविशिखान्तरम्
शिलाफलहकस्फारप्रोच्छलच्छुक्लनिर्झरैः । स्मारिताचलनिर्धूतक्षीरोदधिजलश्रियम्
फलमालामहाभारभासुरैर् अजिरद्रुमैः । आनीय पुष्पसम्भारं तिष्ठद्भिर् इव सङ्कुलम्
तरत्तरलझाङ्कारकारिमारुतकम्पितैः । कीर्णपुष्पमहावृष्टिं द्रुमैर् इव रसाकुलैः
अशङ्कितशिलाकूटस्रवदब्बिन्दुझाङ्कृतैः । किञ्चित्कृतरवं गुप्तैर् अशङ्कैश् शङ्कितैः खगैः
उत्फाललहरीप्रान्तशीकरास्वादनाकुलैः । नद्याम् उड्डयनावर्तवृत्तिभिर् विहगैर् वृतम्
उत्तालतालविश्रान्तकाकालोकनशङ्कितैः । बालैः प्रगोपितामिक्षाखण्डं जीर्णस्वभूप्तकैः
पुष्पशेखरसम्भारवसनग्रामबालकम् । कदम्बनिम्बजम्बीरगहनोपान्तशीतलम्
क्षौमानुतस्तास्वरया मञ्जरीपूर्णकर्णया । क्षुत्क्षान्तया भ्रान्तरथ्यं ग्रामखेटककान्तया
सरित्तरङ्गसङ्घट्टसंरावाश्रुतसङ्कथम् । कर्णजाड्यघनत्रासवाञ्छितैकान्तसंस्थितिम्
दधिलिप्तास्यहस्तांसैर् बद्धपुष्पलताधरैः । नग्नैर् गोमयपङ्काङ्कैर् बालैर् आकुलचत्वरम्
तीरशाद्वलवल्लीनां दोलान्दोलनहारिभिः । तरङ्गैर् वाह्यमानाम्बुलेखिकाङ्कितसैकतम्
दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् । काल्यभक्तार्थनोद्बाष्पजर्जराम्बरबालकम्
गोमयासिक्तवलयकरवारीकृतक्रुधम् । धम्मिल्लवलनाव्यग्रभूतस्त्रीविहसज्जनम्
दान्तपुच्छच्छटच्छन्नपतत्ककुदवायसम् । गृहरथ्याङ्गनद्वारकीर्णकुन्दकरण्डकम्
गृहपार्श्वस्थितश्वभ्रजातैः कुसुमितद्रुमैः । प्रत्यहं प्रातर् आगुल्फम् आकीर्णकुसुमाजिरम्
सरच्चामरसारङ्गचलजङ्गलषण्डकम् । गुञ्जानिकुञ्जसञ्जातशष्पसुप्तमृगार्भकम्
एकान्तरास्तवत्सैककर्णस्पन्दास्तमक्षिकम् । गोपोच्छिष्टीकृतदधिसम्पर्कास्पन्दमक्षिकम्