तालीनां तलकच्छेषु राजदुष्कृतदोषतः । नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम्
वर्षाण्य् अष्टौ सुराष्ट्रेषु देवि गोत्वं मया कृतम् । सोढुं दुर्जनदुष्टाज्ञबालगोपाललीलया
विहङ्ग्या वैरिविन्यस्ता वागुरा विपिनावनौ । क्लेशेन महता च्छिन्ना अद्येमा वासना इव
कर्णिकाक्रोडशय्यासु विश्रान्तम् अलिना सह । पद्मकुड्मलकोशेषु भुक्तकिञ्जल्कया रहः
भ्रान्तम् उत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया । वनस्थलीषु रम्यासु किरातहतमर्मया
दृष्टम् अष्टासु दिक्ष्व् अब्धिकल्लोलैर् उह्यमानया । मत्स्याश्वकच्छपास्फोटरटनाटनताडनम्
पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वनम् । सारतस् सुरते स्वैरं समन्तात् साधुरञ्जितः
तालीतमालकुञ्जेषु तरलानननेत्रया । क्षीवयेक्षणविक्षोभैः कृतं कान्तावलोकनम्
कनकस्यन्दसन्दोहसुन्दरैर् अङ्कपङ्कजैः । स्वर्गाप्सरोऽम्बुजिन्याशुतोषिता सुरषट्पदा
मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले । कल्पद्रुमवने मेरोर् यूना सह रतं कृतम्
कल्लोलाकुलकच्छासु लसद्गुलुगुलासु च । वेलावनगुहास्व् अब्धेश् चिरं कूर्मतया स्थितम्
नलिनीनालदोलासु दोलनं सरसानिलम् । चलत्पत्त्रसजालासु राजहंसतया कृतम्
शाद्वलीदलदोलानाम् आन्दोलनविनिद्रताम् । मषकस्य मयालोक्य दीनं मषिकया स्थितम्
तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः । भ्रान्तं शैलस्रवन्तीषु जलवञ्जुलबालया
गन्धमादनमन्दारमन्दिरे मदनातुरः । पतितः पादयोः पूर्वं विद्याधरकुमारकः
कीर्णकर्पूरपूतेषु तल्पेषु व्यसनातुरा । चिरं विलुलितास्मीन्दोर् बिम्बेष्व् इव शशिप्रभा
योनिष्व् अनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलाङ्ग्या । संसारदीर्घसरितश् चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण
वज्राङ्गसाराद् ब्रह्माण्डकुड्यान् निबिडमण्डलात् । कोटियोजनसंविष्टात् कथं ते निर्गते उभे
क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता । किलावश्यं स्थिते देव्याव् अन्तःपुरवराम्बरे
तस्मिन्न् एव गिरिग्रामे तस्मिन्न् एवालयाम्बरे । ब्राह्मणस् स वसिष्ठाख्य आस्वादयति राजताम्
तम् एव मण्डपाकाशकोणकं शून्यमात्रकम् । चतुस्समुद्रपर्यन्तं भूतलं सो ऽनुभूतवान्
आकाशात्मनि भूपीठे तस्मिंस् तद् राजपत्तनम् । राजसद्मानुभवति स च सा चाप्य् अरुन्धती
लीलाभिधाना सञ्जाता तया च ज्ञप्तिर् अर्चिता । ज्ञप्त्या सह समुल्लङ्घ्य खम् आश्चर्यमनोरमम्
प्रादेशमात्रे नभसि सा तत्रैव गृहोदरे । ब्रह्माण्डान्तरम् आसाद्य गिरिं वासवमन्दिरम्
ब्रह्माण्डात् परिनिर्गत्य स्वगृहे स्थितिम् आययौ । स्वप्नात् स्वप्नान्तरं प्राप्य यथा तल्पगतः पुमान्
प्रतिभामात्रम् एवैतत् सर्वम् आकाशमात्रकम् । न ब्रह्माण्डं न संसारो न कुड्यादि न दूरता
स्वचित्तम् एव कचति तयोस् तादृङ् मनोहरम् । वासनामात्रसोल्लेखं क्व ब्रह्माण्डं क्व संसृतिः
निरावरणम् एवेदं ज्ञप्त्याकाशम् अनन्तकम् । किञ्चित् स्वचित्तेनोन्नीतं स्पन्दयुक्त्येव मारुतः
चिदाकाशम् अजं शान्तं सर्वत्रैव हि सर्वदा । चित्त्वाज् जगद् इवाभाति स्वयम् एवात्मनात्मनि
येन बुद्धं तु तस्यैतद् आकाशाद् अपि शून्यकम् । न बुद्धं येन तस्यैतद् वज्रसाराचलोपमम्