कचति ज्ञप्तिर् एवेयं जगद् इत्यादिनामभिः । न तु पृथ्व्यादि सम्पन्नं सर्गादाव् एव किञ्चन
यथा तरङ्गस् सरिति भूत्वा भूत्वा पुनर् भवेत् । विचित्राकारकलनादेशा जातास्य् अलं तथा
एवम् एतज् जगन्मातर् मया मृतम् इहाधुना । ममेदं राजसं जन्म तामसं नो न सात्त्विकम्
ब्रह्मणस् त्व् अवतीर्णाया अष्टौ जन्मशतानि मे । नानायोनीन्य् अतीतानि पश्यामीवाधुना पुरः
संसारमण्डले देवि कस्मिंश्चिद् अभवं पुरा । लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना
दुर्वासनाकलुषिता ततो ऽहं मानुषी स्थिता । संसारमण्डले ऽन्यस्मिंस् तङ्गणेश्वरकामिनी
करञ्जकुञ्जजम्बीरकदम्बवनवासिनी । पत्त्राम्बरधरा श्यामा शबर्य् अहम् अथाभवम्
वनवासनया मुग्धा सम्पन्नाहम् अथो लता । गुलुच्छनयना पत्त्रहस्ता वननिवासिनी
पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता । वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः
अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः । राजाहं चाभवं श्रीमान् सुराष्ट्रेषु समाश् शतम्
तालीनां तलकच्छेषु राजदुष्कृतदोषतः । नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम्
वर्षाण्य् अष्टौ सुराष्ट्रेषु देवि गोत्वं मया कृतम् । सोढुं दुर्जनदुष्टाज्ञबालगोपाललीलया
विहङ्ग्या वैरिविन्यस्ता वागुरा विपिनावनौ । क्लेशेन महता च्छिन्ना अद्येमा वासना इव
कर्णिकाक्रोडशय्यासु विश्रान्तम् अलिना सह । पद्मकुड्मलकोशेषु भुक्तकिञ्जल्कया रहः
भ्रान्तम् उत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया । वनस्थलीषु रम्यासु किरातहतमर्मया
दृष्टम् अष्टासु दिक्ष्व् अब्धिकल्लोलैर् उह्यमानया । मत्स्याश्वकच्छपास्फोटरटनाटनताडनम्
पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वनम् । सारतस् सुरते स्वैरं समन्तात् साधुरञ्जितः
तालीतमालकुञ्जेषु तरलानननेत्रया । क्षीवयेक्षणविक्षोभैः कृतं कान्तावलोकनम्
कनकस्यन्दसन्दोहसुन्दरैर् अङ्कपङ्कजैः । स्वर्गाप्सरोऽम्बुजिन्याशुतोषिता सुरषट्पदा
मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले । कल्पद्रुमवने मेरोर् यूना सह रतं कृतम्
कल्लोलाकुलकच्छासु लसद्गुलुगुलासु च । वेलावनगुहास्व् अब्धेश् चिरं कूर्मतया स्थितम्
नलिनीनालदोलासु दोलनं सरसानिलम् । चलत्पत्त्रसजालासु राजहंसतया कृतम्
शाद्वलीदलदोलानाम् आन्दोलनविनिद्रताम् । मषकस्य मयालोक्य दीनं मषिकया स्थितम्
तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः । भ्रान्तं शैलस्रवन्तीषु जलवञ्जुलबालया
गन्धमादनमन्दारमन्दिरे मदनातुरः । पतितः पादयोः पूर्वं विद्याधरकुमारकः
कीर्णकर्पूरपूतेषु तल्पेषु व्यसनातुरा । चिरं विलुलितास्मीन्दोर् बिम्बेष्व् इव शशिप्रभा
योनिष्व् अनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलाङ्ग्या । संसारदीर्घसरितश् चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण
वज्राङ्गसाराद् ब्रह्माण्डकुड्यान् निबिडमण्डलात् । कोटियोजनसंविष्टात् कथं ते निर्गते उभे
क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता । किलावश्यं स्थिते देव्याव् अन्तःपुरवराम्बरे
तस्मिन्न् एव गिरिग्रामे तस्मिन्न् एवालयाम्बरे । ब्राह्मणस् स वसिष्ठाख्य आस्वादयति राजताम्