अस्माकं वनदेवीभ्यां प्रसादः कृत इत्य् अथ । शान्तदुःखे गृहजने पुण्यपारपरे स्थिते
मण्डपाकाशसंलीना लीलाम् आह सरस्वती । व्योमरूपा व्योमरूपां स्मयात् तूष्णीम् अवस्थिताम्
सङ्कल्पस्वप्नयोर् मोघक्रियायाः कथनं मिथः । यथेहार्थक्रियां धत्ते तयोस् सा सङ्कथा तथा
पृथ्व्यादिनाडीप्राणादेर् ऋते ऽप्य् अभ्युदिता तयोः । सा सङ्कथनसंवित्तिस् स्वप्नसङ्कल्पयोर् इव
ज्ञेयं ज्ञातम् अशेषेण दृष्टा द्रष्टव्यसंविदः । ईदृशीयं ब्रह्मसत्ता किम् अन्यद् वद पृच्छसि
मृतस्य भर्तुर् जीवो ऽसौ यत्र राज्यं करोति मे । तत्राहं किं न तैर् दृष्टा दृष्टास्मीह सुतेन किम्
अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः । नूनम् अस्तङ्गतो नाभूद् ऋतुसन्धाव् ऋतुर् यथा
अद्वैतं यो न यातो ऽसौ कथम् अद्वैतकर्मभिः । युज्यते तापसंस्थस्य च्छायाङ्गानुभवः कुतः
लीलास्मीति विनाभ्यासं तत्र नास्तङ्गतो ऽभवत् । यदा भावस् तदा सत्यसङ्कल्पत्वम् अभून् न ते
अद्यापि सत्यानुभवास् सङ्कल्पास् तेन मां ययुः । सम्पश्यत्व् इत्य् अभिमतं फलितं तव सुन्दरि
इदानीं तस्य भर्तुस् त्वं समीपं यदि गच्छसि । तत् तेन व्यवहारस् ते पूर्ववत् सम्प्रवर्तते
इहैव मन्दिराकाशे पतिर् विप्रो ममाभवत् । इहैव स मृतो भूत्वा सम्पन्नो वसुधाधिपः
इहैव तस्य संसारे तस्मिन् भूमण्डलान्तरे । राजधानीपुरे तस्मिन् पुरन्ध्र्य् अस्मि व्यवस्थिता
इहैवान्तःपुरे तस्मिन् स मृतो मम भूमिपः । इहैवान्तःपुराकाशे तस्मिन्न् एव पुनर् नृपः
सम्पन्नो वसुधापीठे नानाजनपदेश्वरः । सर्वो जवञ्जवीभाव इहैवायम् अवस्थितः
अस्मिन्न् एव गृहाकाशे सर्वा ब्रह्माण्डभूतयः । स्थितास् समुद्गकोशस्य यथान्तस् सर्षपोत्कराः
तद् अदूरम् अहं मन्ये तद् भर्तुर् मम मण्डलम् । क्वचित् पार्श्वस्थितम् इह यथा पश्यामि तत् कुरु
भूतलारुन्धतिसुते भर्तारस् तव सम्प्रति । त्रयो नामाथवाभूवन् बहवश् शतसम्मिताः
नेदीयसां त्रयाणां तु द्विजस् ते भस्मसाद्गतः । राजा माल्याम्बरवृतस् संस्थितो ऽन्तःपुरे शवः
संसारमण्डपे ऽप्य् अस्मिंस् तृतीयो वसुधाधिपः । महासंसारजलधौ पतितो भ्रमम् आगतः
भोगकल्लोलवलनाविकलाकुलचेतनः । जाड्यजर्जरचिद्वृत्तिस् संसाराम्भोधिकच्छपः
चित्राणि राजकार्याणि कुर्वन्न् अत्याकुलान्य् अपि । सुप्तः तेजस्स्थिततया न जागर्ति भवभ्रमे
ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी । इत्य् अनन्तमहारज्ज्वा वलितो वशतां गतः
तत् कस्य वद भर्तुस् त्वां समीपे वरवर्णिनि । वात्या वनान्तरं गन्धलेखाम् इव वनान् नये
अन्य एव स संसारस् सेव्यो ब्रह्माण्डमण्डपः । अन्या एव च ता वत्से व्यवहारपरम्पराः
संसारमण्डलानीह तानि पार्श्वे स्थितान्य् अपि । नूनं योजनकोटीनां कोटयस् तेष्व् इहान्तरम्
आकाशमात्रम् एतेषाम् इदं पश्य वपुः पुरः । मेरुमन्दरकोटीनां कोटयस् तेष्व् इह स्थिताः
परमाणौ परमाणौ सर्गवर्गा निरर्गलम् । महाचितस् स्फुरन्त्य् अन्ता रुचीव त्रसरेणवः
महारम्भगुरूण्य् एवम् अपि ब्रह्माण्डकानि च । तुलायां धानकामात्रम् अपि तानि भवन्ति नो
नानारत्नाचलोद्द्योतो वनवद् भाति खे यथा । पृथ्व्यादिभूतरहिता जगद्वद् भाति चित् तथा