क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः । उपवासपरो ग्रामो दीनो मृतिपरस् स्थितः
दिवसं प्रति वृक्षाणाम् अवश्यायास्रुबिन्दवः । गुच्छलोचनकोशेभ्यस् तापोष्णा निपतन्त्य् अधः
प्रशान्तजनसञ्चारा रथ्याः क्षारविधूसराः । विधवा विगतानन्दास् संशून्यहृदयं गताः
कोकिलालिप्रलापिन्यो वृष्टिबाष्पहता लताः । उष्णोष्णश्वसना देहं घ्नन्ति पल्लवपाणिभिः
आत्मानं शतधा कर्तुं बृहच्छ्वभ्राच् छिलातले । निर्झरा निपतन्त्य् एते तापतप्तशरीरकाः
निस्सङ्कथा गतश्रीका मूका विलुलिताशयाः । अन्धेन तमसा पूर्णा गृहा गहनतां गताः
उद्यानपुष्पषण्डेभ्यो रुदद्भ्यो भ्रमरारवैः । पूतिगन्धो विनिर्याति स्वामोदापरनामकः
चूतद्रुमविलासिन्यो विरसाः प्रतिवासरम् । लताः कृशा विलीयन्ते सङ्कुचद्गुच्छलोचनाः
प्रक्षेप्तुम् अम्बुधौ देहं प्रवृत्ता गन्तुम् आकुलाः । कुल्याः कलकलालोला लोलयन्त्यस् तनुं भुवि
अशङ्कमषकापातस्पन्दम् अप्य् अतिचापलम् । कलयन्त्यस् स्थिता वाप्यो निस्स्पन्दानन्दम् आत्मनि
गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् । नूनम् अद्य नभो जातम् अस्मत्ताताभ्यलङ्कृतम्
तद् देव्यौ क्रियतां तावद् अस्माकं शोकनाशनम् । महतां दर्शनं नाम न कदाचन निष्फलम्
इत्य् उक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना । पल्लवेनानता नम्रं मूलग्रन्थिम् इवाब्जिनी
तस्यास् स्पर्शेन तेनासौ दुःखदौर्भाग्यसङ्कटम् । जहौ प्रावृड्घनासङ्गाद् ग्रीष्मतापम् इवाचलः
सर्वो गृहजनस् सो ऽथ तयोर् देव्योर् विलोकनात् । लक्ष्मीवान् दुःखनिर्मुक्तो बभूवामृतपो यथा
तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः । कस्मान् न दर्शनं दत्तं नो दत्तः कथितो ऽथवा
बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः । तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम्
असद् एवाङ्ग सद् इव भाति पृथ्व्यादिवेदनात् । यथा बालस्य वेतालो न भाति तदवेदनात्
यथा पृथ्व्यादिता भाता न पृथ्व्यादि भवेत् क्षणात् । स्वप्ने स्वप्नपरिज्ञानात् तथा जाग्रत्य् अपि स्फुटम्
पृथ्व्यादि खतया बुद्धं खम् इत्य् एवानुभूयते । तथा हि क्षुब्धधातूनां कुड्ये ऽपि ख इवोद्यमः
स्वप्ने नगरम् उर्वी वा शून्यं खातं च बुध्यते । स्वप्नाङ्गना च कुरुते शून्याप्य् अर्थक्रिया नृणाम्
खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् । मूर्छया परलोको ऽपि प्रत्यक्षम् अनुभूयते
बालो व्योमैव वेतालं म्रियमानो ऽम्बरं वनम् । केशोण्डुकं खम् अन्यस् तु खम् अन्यो वेत्ति मौक्तिकम्
त्रस्तक्षीवार्धनिद्राश् च नौयानाश् च सदैव खे । वेतालवच् च वृक्षादि पश्यन्त्य् अनुभवत्य् अपि
प्रथाभावितम् एतेषां पदार्थानाम् अदो वपुः । अभ्यासजनितं भावि नास्त्य् एकं परमार्थतः
लीलया तु यथावस्तु बुद्धं पृथ्व्यादि नास्ति तत् । आकाशम् एव संवित्त्या भावित्वादितयोदितम्
ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः । पुत्रमित्रकलत्राणि कथं कानि कदा कुतः
हस्तश् शिरसि यद् दत्तो लीलया ज्येष्ठशर्मणः । तत् प्रवाहस्थितारम्भसम्बोधायाश् चितेः फलम्
बोधो हि चेतति यथैव तथा विभाति सूक्ष्मस् तु खाद् अतितरां च तथा विशुद्धः । सर्वत्र राघव स एव पदार्थजालं स्वप्नेषु कल्पितपुरेष्व् अनुभूतम् एव
तस्मिन् गिरितटे ग्रामे तस्मिन् मण्डपकोदरे । अन्तर्धिम् आश्व् आययतुस् तत्रस्थे एव ते स्त्रियौ