पादैर् अमृदिताम्लानपुष्पपल्लवकोमलैः । फुल्लाब्जदलमालाभैर् अस्पृशद्भूतलं पुनः
तालीतमालषण्डानां शुष्कानां शशिरोचिषाम् । आलोकनामृतासेकैर् जनयद् बालपल्लवान्
नमो ऽस्तु वनदेवीभ्याम् इत्य् उक्त्वा कुसुमाञ्जलिम् । तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः
पपात पादयोर् देव्योस् तयोस् सकुसुमाञ्जलिः । प्रालेयशीकरासारः पद्मिन्या इव पद्मयोः
जयतं वनदेव्यौ नो दुःखनाशार्थम् आगते । प्रायः परपरित्राणम् एव कर्म निजं सताम्
देव्याव् अभवतां स्निग्धाव् इह ब्राह्मणदम्पती । सर्वातिथी कुलकरौ स्तम्भभूतौ द्विजस्थितेः
ताव् अद्य गृहम् उत्सृज्य सपुत्रपशुबान्धवम् । स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम्
पक्षिणो वृक्षम् आरुह्य विक्षिपन्तः प्रतिक्षणम् । गृहे शून्ये मृताव् उत्काश् शोचन्ति मधुरस्वनैः
गुहा घुरघुरारावप्रलापकलनाकुला । सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः
निर्झराक्रन्दहारिण्यो मुक्ताम्बरपयोधराः । तप्तनिश्श्वासविध्वस्ताः परं कार्श्यम् इता दिशः
क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः । उपवासपरो ग्रामो दीनो मृतिपरस् स्थितः
दिवसं प्रति वृक्षाणाम् अवश्यायास्रुबिन्दवः । गुच्छलोचनकोशेभ्यस् तापोष्णा निपतन्त्य् अधः
प्रशान्तजनसञ्चारा रथ्याः क्षारविधूसराः । विधवा विगतानन्दास् संशून्यहृदयं गताः
कोकिलालिप्रलापिन्यो वृष्टिबाष्पहता लताः । उष्णोष्णश्वसना देहं घ्नन्ति पल्लवपाणिभिः
आत्मानं शतधा कर्तुं बृहच्छ्वभ्राच् छिलातले । निर्झरा निपतन्त्य् एते तापतप्तशरीरकाः
निस्सङ्कथा गतश्रीका मूका विलुलिताशयाः । अन्धेन तमसा पूर्णा गृहा गहनतां गताः
उद्यानपुष्पषण्डेभ्यो रुदद्भ्यो भ्रमरारवैः । पूतिगन्धो विनिर्याति स्वामोदापरनामकः
चूतद्रुमविलासिन्यो विरसाः प्रतिवासरम् । लताः कृशा विलीयन्ते सङ्कुचद्गुच्छलोचनाः
प्रक्षेप्तुम् अम्बुधौ देहं प्रवृत्ता गन्तुम् आकुलाः । कुल्याः कलकलालोला लोलयन्त्यस् तनुं भुवि
अशङ्कमषकापातस्पन्दम् अप्य् अतिचापलम् । कलयन्त्यस् स्थिता वाप्यो निस्स्पन्दानन्दम् आत्मनि
गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् । नूनम् अद्य नभो जातम् अस्मत्ताताभ्यलङ्कृतम्
तद् देव्यौ क्रियतां तावद् अस्माकं शोकनाशनम् । महतां दर्शनं नाम न कदाचन निष्फलम्
इत्य् उक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना । पल्लवेनानता नम्रं मूलग्रन्थिम् इवाब्जिनी
तस्यास् स्पर्शेन तेनासौ दुःखदौर्भाग्यसङ्कटम् । जहौ प्रावृड्घनासङ्गाद् ग्रीष्मतापम् इवाचलः
सर्वो गृहजनस् सो ऽथ तयोर् देव्योर् विलोकनात् । लक्ष्मीवान् दुःखनिर्मुक्तो बभूवामृतपो यथा
तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः । कस्मान् न दर्शनं दत्तं नो दत्तः कथितो ऽथवा
बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः । तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम्
असद् एवाङ्ग सद् इव भाति पृथ्व्यादिवेदनात् । यथा बालस्य वेतालो न भाति तदवेदनात्
यथा पृथ्व्यादिता भाता न पृथ्व्यादि भवेत् क्षणात् । स्वप्ने स्वप्नपरिज्ञानात् तथा जाग्रत्य् अपि स्फुटम्
पृथ्व्यादि खतया बुद्धं खम् इत्य् एवानुभूयते । तथा हि क्षुब्धधातूनां कुड्ये ऽपि ख इवोद्यमः