आसन्नमृत्युतरुणान्तरवक्त्रकान्तिसंशीर्णजीर्णतरुपर्णवनोपमानम् । वृष्टिव्यपायपरिधूसरदेशरूक्षं जातं गृहेश्वरवियोगहतं गृहं तत्
अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी । सम्पन्ना सत्यसङ्कल्पा सत्यकामा च देववत्
चिन्तयाम् आस माम् एते देवीं चेमां स्वबान्धवाः । पश्यन्तु तावत् सामान्यललनारूपधारिणीम्
ततो गृहजनस् तत्र स ददर्शाङ्गनाद्वयम् । लक्ष्मीगौर्योर् युगम् इव समुद्भासितमन्दिरम्
आपादं विविधाम्लानमालावलनसुन्दरम् । वसन्तलक्ष्म्योर् युगलम् इवामोदितकाननम्
सर्वौषधिवनग्रामं पूरयत् तं रसायनैः । शीतलाह्लादसुखदं चन्द्रद्वयम् इवोदितम्
लम्बालकलतालोललोचनालिविलोकितैः । किरत् कुवलयोन्मिश्रमालतीकुसुमोत्करान्
द्रुतहेमरसापूर्णसरित्सरणहारिणा । देहप्रभाप्रभावेन कनकीकृतकाननम्
सहजाया वपुर् लक्ष्म्या लीलादोलाविलासिना । तरतेव तरङ्गाढ्यनिजलावण्यवारिधेः
विलोलबाहुलतिकायुगेनारुणपाणिना । प्रकिरद् वा नवं हैमकल्पवृक्षलतावनम्
पादैर् अमृदिताम्लानपुष्पपल्लवकोमलैः । फुल्लाब्जदलमालाभैर् अस्पृशद्भूतलं पुनः
तालीतमालषण्डानां शुष्कानां शशिरोचिषाम् । आलोकनामृतासेकैर् जनयद् बालपल्लवान्
नमो ऽस्तु वनदेवीभ्याम् इत्य् उक्त्वा कुसुमाञ्जलिम् । तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः
पपात पादयोर् देव्योस् तयोस् सकुसुमाञ्जलिः । प्रालेयशीकरासारः पद्मिन्या इव पद्मयोः
जयतं वनदेव्यौ नो दुःखनाशार्थम् आगते । प्रायः परपरित्राणम् एव कर्म निजं सताम्
देव्याव् अभवतां स्निग्धाव् इह ब्राह्मणदम्पती । सर्वातिथी कुलकरौ स्तम्भभूतौ द्विजस्थितेः
ताव् अद्य गृहम् उत्सृज्य सपुत्रपशुबान्धवम् । स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम्
पक्षिणो वृक्षम् आरुह्य विक्षिपन्तः प्रतिक्षणम् । गृहे शून्ये मृताव् उत्काश् शोचन्ति मधुरस्वनैः
गुहा घुरघुरारावप्रलापकलनाकुला । सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः
निर्झराक्रन्दहारिण्यो मुक्ताम्बरपयोधराः । तप्तनिश्श्वासविध्वस्ताः परं कार्श्यम् इता दिशः
क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः । उपवासपरो ग्रामो दीनो मृतिपरस् स्थितः
दिवसं प्रति वृक्षाणाम् अवश्यायास्रुबिन्दवः । गुच्छलोचनकोशेभ्यस् तापोष्णा निपतन्त्य् अधः
प्रशान्तजनसञ्चारा रथ्याः क्षारविधूसराः । विधवा विगतानन्दास् संशून्यहृदयं गताः
कोकिलालिप्रलापिन्यो वृष्टिबाष्पहता लताः । उष्णोष्णश्वसना देहं घ्नन्ति पल्लवपाणिभिः
आत्मानं शतधा कर्तुं बृहच्छ्वभ्राच् छिलातले । निर्झरा निपतन्त्य् एते तापतप्तशरीरकाः
निस्सङ्कथा गतश्रीका मूका विलुलिताशयाः । अन्धेन तमसा पूर्णा गृहा गहनतां गताः
उद्यानपुष्पषण्डेभ्यो रुदद्भ्यो भ्रमरारवैः । पूतिगन्धो विनिर्याति स्वामोदापरनामकः
चूतद्रुमविलासिन्यो विरसाः प्रतिवासरम् । लताः कृशा विलीयन्ते सङ्कुचद्गुच्छलोचनाः
प्रक्षेप्तुम् अम्बुधौ देहं प्रवृत्ता गन्तुम् आकुलाः । कुल्याः कलकलालोला लोलयन्त्यस् तनुं भुवि
अशङ्कमषकापातस्पन्दम् अप्य् अतिचापलम् । कलयन्त्यस् स्थिता वाप्यो निस्स्पन्दानन्दम् आत्मनि