ततो ऽपि पुष्करद्वीपलेखया द्विगुणस्थया । अन्ते स्वादूदकाम्भोधिलेखयैवम्प्रमाणया
सप्तस्व् अर्णवलेखासु नैरृते ककुबन्तरे । जलेन्धनज्वलज्ज्वालवडवाग्निकणाङ्किताम्
ततो ऽपि कोटिदशकं तप्तकाञ्चनकान्तया । वलितां कान्तिशालिन्या भुवा गीर्वाणभोग्यया
अथ सप्तार्णवद्वीपहेमोर्वीणां प्रमाणतः । ततो दशगुणेनाधः पातालतलगामिना
निखातवलयेनोच्चैश् श्वभ्रसम्भाररूपिणा । पातालगममार्गेण वलितां भयदात्मना
एतस्मात् खलु सर्वस्मात् ततो दशगुणोच्चया । आव्योम सचतुर्दिक्कं श्वभ्रसम्भारभीमया
अर्धे म्लानतमोरूपलग्ननीलोत्पलस्रजा । नानामाणिक्यशिखरकल्हारकुमुदाब्जया
लोकालोकाचलोत्तालविपुलाट्टालमालया । वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनाम् इव
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना । अज्ञातभूतसञ्चारनाम्नारण्येन पालिताम्
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना । नभसेव चतुर्दिक्कं व्याप्तां निर्मलवारिणा
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना । मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम्
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना । मेर्वाद्य् अप्य् अचलनीकं नयता तृणपांसुवत्
वहताद्रीन्द्रविस्फोटकारिदार्वाग्निहारिणा । निश्शून्यत्वाद् अशब्देन मरुता परितो वृताम्
एतस्माद् अथ सर्वस्मात् ततो दशगुणात्मना । परितो वलितां व्योम्ना निश्शून्येनैकरूपिणा
अथ योजनलक्षाणां शतेन घनरूपिणा । व्याप्तां ब्रह्माण्डखण्डेन हैमेन रविपर्वणा
इति जलधिमहाद्रिलोकपाल त्रिदशपुराम्बरभूतलप्रणीतम् । जगदुदरम् अवेक्ष्य मानुषी प्राग् भुवि निजमन्दिरकोटरं ददर्श
ततो ददृशतुस् सद्म स्वम् एव सिद्धयोषितौ । अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम्
चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् । विध्वस्तप्रायरचनं शीर्णपत्त्राम्बुजोपमम्
नष्टोत्सवपुरप्रायम् अगस्त्यान्तम् इवार्णवम् । ग्रीष्मदग्धम् इवोद्यानं विद्युद्दग्धम् इव द्रुमम्
वातच्छिन्नम् इवाम्भोदं हिमदग्धम् इवाम्बुजम् । स्वल्पस्नेहदशं दीपम् इवालोकनखेददम्
आसन्नमृत्युतरुणान्तरवक्त्रकान्तिसंशीर्णजीर्णतरुपर्णवनोपमानम् । वृष्टिव्यपायपरिधूसरदेशरूक्षं जातं गृहेश्वरवियोगहतं गृहं तत्
अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी । सम्पन्ना सत्यसङ्कल्पा सत्यकामा च देववत्
चिन्तयाम् आस माम् एते देवीं चेमां स्वबान्धवाः । पश्यन्तु तावत् सामान्यललनारूपधारिणीम्
ततो गृहजनस् तत्र स ददर्शाङ्गनाद्वयम् । लक्ष्मीगौर्योर् युगम् इव समुद्भासितमन्दिरम्
आपादं विविधाम्लानमालावलनसुन्दरम् । वसन्तलक्ष्म्योर् युगलम् इवामोदितकाननम्
सर्वौषधिवनग्रामं पूरयत् तं रसायनैः । शीतलाह्लादसुखदं चन्द्रद्वयम् इवोदितम्
लम्बालकलतालोललोचनालिविलोकितैः । किरत् कुवलयोन्मिश्रमालतीकुसुमोत्करान्
द्रुतहेमरसापूर्णसरित्सरणहारिणा । देहप्रभाप्रभावेन कनकीकृतकाननम्
सहजाया वपुर् लक्ष्म्या लीलादोलाविलासिना । तरतेव तरङ्गाढ्यनिजलावण्यवारिधेः
विलोलबाहुलतिकायुगेनारुणपाणिना । प्रकिरद् वा नवं हैमकल्पवृक्षलतावनम्