क्वचिद् इन्दुकरावृष्टिशीतलाह्लादिमारुतम् । क्वचित् तप्तानलादग्धद्रुमपर्वतवारिदम्
क्वचिद् अत्यन्तसंशान्तवाताद्येकान्तनिर्ध्वनि । क्वचित् पर्वततुल्याग्निशिखासदृशतोदयम्
क्वचित् प्रावृड्भरोन्मत्तघनाभ्ररवघर्घरम् । क्वचित् सुरासुरगणप्रवृत्तरणदुर्गमम्
क्वचिद् व्योमाब्जिनीहंसीस्वराहूताजवाहनम् । क्वचिन् मन्दाकिनीतीरनलिनीलुण्ठकानिलम्
शरीरिणीनां गङ्गादिसरितां सन्निधानतः । प्रोड्डीनमत्स्यमकरकुलीरान्तरकोटरम्
पातालगार्कजनितभूच्छायाकाकतोदरम् । क्वचित् क्वचिन् मण्डलेषु ग्रस्तचन्द्रार्कमण्डलम्
क्वचित् स्वर्गानिलाधूतमायाकुसुमकाननम् । पतत्पुष्पहिमासारत्रस्तवैमानिकाङ्गनम्
उडुम्बरोदरमषकक्रमभ्रमज्जगत्त्रयान्तरगतभूतसञ्चयम् । विलङ्घ्य तद् वरललने विमुच्य खं महीतलं पुनर् अपि गन्तुम् उद्यते
नभस्तलाद् गिरिग्रामं गच्छन्त्यौ किञ्चिद् एव हि । ज्ञप्तिचित्तस्थिते भूमितलं ददृशतुस् स्त्रियौ
ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् । गिरिकेसरसम्बाधं स्वामोदभरसुन्दरम्
सरित्केसरिकानालम् अवश्यायाम्बुबिन्दुकम् । शर्वरीभ्रमरीभ्रान्तं भूतौघमषकाकुलम्
अन्तर्घुणगणाकीर्णं सुरन्ध्रैस् सुषिरैर् वृतम् । उह्यमानं पयःपूरैर् दिवसालोककान्तिमत्
रसार्द्रं खे भ्रमद्धंसं रात्रिसङ्कोचभाजनम् । पातालपङ्कनिर्मग्ननागनाथमृणालकम्
कदाचिद् आस्पदाम्भोधिकम्पकम्पितदिग्दलम् । अधो नागगतानन्तदैत्यदानवकण्टकम्
असुरव्रणवल्लर्या सम्भोगसुकुमारया । व्याप्तभूभृन्महाबीजहृदयं बीजभूतया
जम्बुद्वीप इति ख्यातां विपुलां तत्र कर्णिकाम् । सरित्केसरिकानालां नगरग्रामकेसराम्
कुलशैलोद्धुरोत्तुङ्गबीजसप्तकसुन्दरीम् । मध्यस्थोच्चमहामेरुबीजाक्रान्तनभस्तलाम्
सरःप्रालेयकणिकावनजङ्गलयूथिकाम् । स्वलेखामण्डलान्तस्स्थजनजालाभ्रमण्डलाम्
तां योजनशताकारैः प्रतिराकां प्रबोधिभिः । सागरैर् भ्रमरैर् व्याप्तां दिक्चतुष्टयशायिभिः
दिग्दलाष्टकविश्रान्तसस्वनाम्भोजषट्पदाम् । भ्रातृभिर् नवभिर् भूपैर् नवधा परिकल्पिताम्
लक्षयोजनविस्तीर्णाम् आकीर्णां च रजोलवैः । नानाजनपदव्यूहस्थिरावश्यायशीकराम्
द्वीपात् तु द्विगुणं सालं लवणार्णवलेखया । दधत्या वलितां बाह्ये प्रकोष्ठम् इव कम्बुना
ततो ऽपि द्विगुणं देहं दधत्या वलयाकृतिम् । जगद्भुजलताव्याप्तां शाकाख्यद्वीपलेखया
ततो ऽपि द्विगुणाकारधारिण्या परिवेष्टिताम् । प्रत्यग्रक्षीरपूर्णाब्धिलेखया स्वादुशीतया
ततो ऽपि द्विगुणाकारधारिण्या परिवेष्टिताम् । नानाजनालङ्कृतया कुशाख्यद्वीपलेखया
ततो ऽपि द्विगुणाकारं धारयन्त्या विवेष्टिताम् । दध्यब्धिलेखया नित्यं सन्तर्पितसुरौघया
ततः क्रौञ्चाभिधद्वीपलेखयैवम्प्रमाणया । वेष्टितां खातखदया नवां नृपपुरीम् इव
ततो ऽपि च घृताम्भोधिलेखयैवम्प्रमाणया । ततो ऽपि शल्मलिद्वीपलेखयामरपूर्णया
ततस् सुरामहाम्भोधिलेखया पुष्पशुभ्रया । शेषस्य देहलतया हरिमूर्तिम् इवाश्रिताम्
ततो गोमेदकद्वीपलेखयैवम्प्रमाणया । इक्षूदलेखयाप्य् एवं हिमवत्सानुशुद्धया