क्वचिद् रुद्धपुरापूरं क्वचिद् बद्धमहापुरम् । क्वचिन् मायाकृतपुरं क्वचिद् आगामिपत्तनम्
क्वचिद् भ्रमच्चन्द्रसरः क्वचित् स्तब्धपयस्सरः । क्वचित् सरत्सिद्धगणं क्वचिद् इन्दुकृतोदयम्
क्वचित् सूर्योदयमयं क्वचिद् रात्रितमोमयम् । क्वचित् सन्ध्यांशुकपिशं क्वचिन् नीहारधूसरम्
क्वचिद् विमानधवलं क्वचिद् वर्षत्पयोधरम् । क्वचित् स्थलम् इवाकाशम् एव विश्रान्तलोकपम्
ऊर्ध्वाधोगमनव्यग्रसुरासुरगणं क्वचित् । पूर्वापरोत्तरायाम्यदिक्सञ्चाराकुलं क्वचित्
अपि योजनलक्षाणि क्वचिद् दुष्प्रापधूपकम् । अविनाशतमःपूर्णदृष्टवद् व्योमवत् क्वचित्
अविनाशिबृहत्तेजः क्वचिद् अर्कानलोपमम् । हिमानीजठराशीतं क्वचिच् चन्द्रादिसद्मसु
क्वचिद् बृहत्पुरोन्नृत्यत्कल्पवृक्षलतावनम् । क्वचिद् दैत्यहतोत्तुङ्गप्रपतद्देवपत्तनम्
वैमानिकनिपातेन वह्निलेखाङ्कितं क्वचित् । क्वचित् केतुशतोत्पातमिथस्सङ्घट्टघट्टितम्
क्वचिच् छुभग्रहगणप्रगृहीताद्यमङ्गलम् । क्वचिद् रात्रितमोव्याप्तं क्वचिद् दिवसभासुरम्
क्वचिद् दुर्गर्जदम्भोदं क्वचिन् मूकचलाम्बुदम् । वातावकीर्णशुक्लाभ्रखण्डपुष्पोत्करं क्वचित्
क्वचिद् अत्यन्तनिश्शून्यम् अवदातम् अनन्तरम् । आनन्दिमृदुशान्ताच्छं ज्ञस्येव हृदयं ततम्
शुकवाहनभेकौघैः क्वचिद् गलकृतारवम् । शून्यताराभिवलितं क्षेत्रम् आकाशवासिनाम्
मयूरहेमचूडादिपक्षिभिः क्वचिद् आवृतम् । विद्याधरीणां देवीनां वाहनैर् विहितास्पदैः
क्वचिद् अभ्रान्तरोन्नृत्यद्गुहमायूरमण्डलम् । क्वचिद् अग्निशुकैश् श्यामं शाद्वलानाम् इव स्थलम्
क्वचित् प्रेतेशमहिषमहिम्ना वाहनाम्बुदम् । क्वचिद् अश्वैस् तृणग्रासशङ्काग्रस्तासिताम्बुदम्
क्वचिद् देवपुरव्याप्तं क्वचिद् दैत्यपुरान्वितम् । अन्योऽन्याप्राप्यनगरं नगरन्ध्रकरालिनम्
क्वचित् कुलाचलाकारनृत्यद्भैरवभासुरम् । क्वचिद् गन्धर्वनगरसुरस्त्रीवृन्दबन्धनम्
क्वचिद् कम्पद्गिरिध्वस्तवृक्षलक्षोक्षिताम्बुधिम् । क्वचिन् मायाकृताकाशनलिनीजलशीतलम्
क्वचित् सपक्षशैलेन्द्रसमनृत्यद्विनायकम् । क्वचिद् घर्घरवाताढ्यपक्षप्रोड्डीनपर्वतम्
क्वचिद् इन्दुकरावृष्टिशीतलाह्लादिमारुतम् । क्वचित् तप्तानलादग्धद्रुमपर्वतवारिदम्
क्वचिद् अत्यन्तसंशान्तवाताद्येकान्तनिर्ध्वनि । क्वचित् पर्वततुल्याग्निशिखासदृशतोदयम्
क्वचित् प्रावृड्भरोन्मत्तघनाभ्ररवघर्घरम् । क्वचित् सुरासुरगणप्रवृत्तरणदुर्गमम्
क्वचिद् व्योमाब्जिनीहंसीस्वराहूताजवाहनम् । क्वचिन् मन्दाकिनीतीरनलिनीलुण्ठकानिलम्
शरीरिणीनां गङ्गादिसरितां सन्निधानतः । प्रोड्डीनमत्स्यमकरकुलीरान्तरकोटरम्
पातालगार्कजनितभूच्छायाकाकतोदरम् । क्वचित् क्वचिन् मण्डलेषु ग्रस्तचन्द्रार्कमण्डलम्
क्वचित् स्वर्गानिलाधूतमायाकुसुमकाननम् । पतत्पुष्पहिमासारत्रस्तवैमानिकाङ्गनम्
उडुम्बरोदरमषकक्रमभ्रमज्जगत्त्रयान्तरगतभूतसञ्चयम् । विलङ्घ्य तद् वरललने विमुच्य खं महीतलं पुनर् अपि गन्तुम् उद्यते
नभस्तलाद् गिरिग्रामं गच्छन्त्यौ किञ्चिद् एव हि । ज्ञप्तिचित्तस्थिते भूमितलं ददृशतुस् स्त्रियौ
ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् । गिरिकेसरसम्बाधं स्वामोदभरसुन्दरम्