पर्यन्तस्थितकुम्भाण्डरक्षोगुह्यकमण्डलम् । वातस्कन्धमहावेगवहद्वैमानिकव्रजम्
वहद्विमानझाङ्कारमुष्टिग्राह्यघनध्वनि । ग्रहर्क्षगणसञ्चारसञ्चलद्वातयन्त्रकम्
निकटातपदग्धाल्पसिद्धिसिद्धोज्झितास्पदम् । अर्काश्वमुखवातास्तदग्धमुग्धविमानकम्
लोकपालाप्सरोवृन्दसञ्चाराचारचञ्चलम् । देवान्तःपुरिकादग्धधूपधूमाम्बुदावृतम्
विहगाहृतदेवस्त्रीस्वाङ्गविभ्रष्टभूषणम् । सामान्यसिद्धासह्योग्रतेजःपुञ्जतमोबलम्
बलवत्सिद्धसङ्घट्टगमागमविघट्टितैः । घनैस् सांशुकपार्श्वस्थहिमवन्मेरुमन्दरम्
काकोलूकैस् सगृध्रौघैः पुञ्जीभूतैश् चलैर् वृतम् । नृत्यद्भिर् डाकिनीवाहैस् तरङ्गैर् इव वारिधिम्
प्रनृत्यद्योगिनीसङ्घैश् श्वकाकोष्ट्रखराननैः । निरर्थं योजनशतं गत्वागच्छद्भिर् आवृतम्
लोकपालपुरोद्वान्तधूपधूमाभ्रमन्दिरम् । सिद्धगन्धर्वमिथुनप्रारब्धसुरतोत्सवम्
स्वर्गगीतश्रवोन्मत्तखदिराक्रान्तमार्गगम् । अनारतवहद्धिष्ण्यलक्षलक्षितपक्षिकम्
वातस्कन्धनिखातान्तवहत्त्रिपथगाजलम् । आश्चर्यालोकनव्यग्रसञ्चरत्त्रिदशार्भकम्
सन्देहसञ्चरद्वज्रचक्रशूलासिशक्तिमत् । क्वचिन् निर्भित्तिसदनगायत्तुम्बुरुनारदम्
मेघमार्गमहामेघमहारम्भाकुलं क्वचित् । चित्रन्यस्तसमाकारमूककल्पान्तवारिदम्
उत्पक्षकज्जलाद्रीन्द्रसुन्दराम्भोधरं क्वचित् । क्वचित् कनकनिष्ष्यन्दकान्ततापादवारिदम्
क्वचिच् चन्द्राभतापाढ्यवृष्टमूकाम्बुदांशुकम् । क्वचिन् निष्पवनाम्भोधिसंशान्तं शून्यताजलम्
क्वचिद् वातनदीप्रौढविमानतृणपल्लवम् । क्वचिच् चलदलिव्रातपृष्ठत्वक्कान्तिनिर्मलम्
क्वचिन् मेरुदरीकल्पवातधूलिविधूसरम् । क्वचिद् विमानगीर्वाणप्रभाभिश् चित्रिताङ्गनम्
क्वचिन् निरम्बरोन्मत्तमातृमण्डलमालितम् । क्वचिन् नित्यरवक्षीवक्षुब्धयोगीश्वरीगणम्
क्वचिच् छान्तसमाधिस्थविश्रान्तमुनिमण्डलम् । समं दूरास्तसंरम्भं साधुचित्तमनोहरम्
गायत्किन्नरगन्धर्वसुरस्त्रीमण्डलं क्वचित् । क्वचित् स्तब्धपुराकीर्णं वहत्सुरवरं क्वचित्
क्वचिद् रुद्धपुरापूरं क्वचिद् बद्धमहापुरम् । क्वचिन् मायाकृतपुरं क्वचिद् आगामिपत्तनम्
क्वचिद् भ्रमच्चन्द्रसरः क्वचित् स्तब्धपयस्सरः । क्वचित् सरत्सिद्धगणं क्वचिद् इन्दुकृतोदयम्
क्वचित् सूर्योदयमयं क्वचिद् रात्रितमोमयम् । क्वचित् सन्ध्यांशुकपिशं क्वचिन् नीहारधूसरम्
क्वचिद् विमानधवलं क्वचिद् वर्षत्पयोधरम् । क्वचित् स्थलम् इवाकाशम् एव विश्रान्तलोकपम्
ऊर्ध्वाधोगमनव्यग्रसुरासुरगणं क्वचित् । पूर्वापरोत्तरायाम्यदिक्सञ्चाराकुलं क्वचित्
अपि योजनलक्षाणि क्वचिद् दुष्प्रापधूपकम् । अविनाशतमःपूर्णदृष्टवद् व्योमवत् क्वचित्
अविनाशिबृहत्तेजः क्वचिद् अर्कानलोपमम् । हिमानीजठराशीतं क्वचिच् चन्द्रादिसद्मसु
क्वचिद् बृहत्पुरोन्नृत्यत्कल्पवृक्षलतावनम् । क्वचिद् दैत्यहतोत्तुङ्गप्रपतद्देवपत्तनम्
वैमानिकनिपातेन वह्निलेखाङ्कितं क्वचित् । क्वचित् केतुशतोत्पातमिथस्सङ्घट्टघट्टितम्
क्वचिच् छुभग्रहगणप्रगृहीताद्यमङ्गलम् । क्वचिद् रात्रितमोव्याप्तं क्वचिद् दिवसभासुरम्