धारागृहधिया धीरगङ्गानिर्झरधारिणि । ववतुर् वातविक्षुब्धमेघमण्डलमण्डपे
ततो मधुरकामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः । शून्ये ददृशतुर् व्योम महासंरम्भमन्थरम्
अदृष्टपूर्वम् अन्योऽन्यम् अन्यसङ्कटकोटरम् । आपूर्यमाणम् आशून्यं जगत्कोटिशतैर् अपि
उपर्य् उपर्य् उपर्य् उच्चैर् अन्यैर् अन्यैर् वृतं पृथक् । विचित्रावरणाकारैर् भूताभ्रांशुविमानकैः
परितः पूरितव्योम्नां मेर्वादिकुलभूभृताम् । पद्मरागतटोद्द्योतैः कल्पज्वालोदरोपमम्
मुक्ताशिखरभापूरैर् हिमवत्सानुसुन्दरम् । काञ्चनाद्रिस्थलार्चिर्भिः काञ्चनस्थलभासुरम्
महामरकताभाभिश् शाद्वलस्थलनीलिम । द्रष्टुर् दृष्टिक्षयासत्यजातध्वान्तोत्थकालिम
पारिजातलतालोलविमानगणकेतनम् । बोधमञ्जरिताकारम् इव वैडूर्यभूतलम्
मनोवेगमहासिद्धजितवातगमागमम् । विमानगृहदेवस्त्रीगीतवाद्यरवाकुलम्
त्रैलोक्यचरभूतौघसञ्चारविरलान्तरम् । अन्योऽन्यादृष्टसञ्चारसुरासुरकुलाकुलम्
पर्यन्तस्थितकुम्भाण्डरक्षोगुह्यकमण्डलम् । वातस्कन्धमहावेगवहद्वैमानिकव्रजम्
वहद्विमानझाङ्कारमुष्टिग्राह्यघनध्वनि । ग्रहर्क्षगणसञ्चारसञ्चलद्वातयन्त्रकम्
निकटातपदग्धाल्पसिद्धिसिद्धोज्झितास्पदम् । अर्काश्वमुखवातास्तदग्धमुग्धविमानकम्
लोकपालाप्सरोवृन्दसञ्चाराचारचञ्चलम् । देवान्तःपुरिकादग्धधूपधूमाम्बुदावृतम्
विहगाहृतदेवस्त्रीस्वाङ्गविभ्रष्टभूषणम् । सामान्यसिद्धासह्योग्रतेजःपुञ्जतमोबलम्
बलवत्सिद्धसङ्घट्टगमागमविघट्टितैः । घनैस् सांशुकपार्श्वस्थहिमवन्मेरुमन्दरम्
काकोलूकैस् सगृध्रौघैः पुञ्जीभूतैश् चलैर् वृतम् । नृत्यद्भिर् डाकिनीवाहैस् तरङ्गैर् इव वारिधिम्
प्रनृत्यद्योगिनीसङ्घैश् श्वकाकोष्ट्रखराननैः । निरर्थं योजनशतं गत्वागच्छद्भिर् आवृतम्
लोकपालपुरोद्वान्तधूपधूमाभ्रमन्दिरम् । सिद्धगन्धर्वमिथुनप्रारब्धसुरतोत्सवम्
स्वर्गगीतश्रवोन्मत्तखदिराक्रान्तमार्गगम् । अनारतवहद्धिष्ण्यलक्षलक्षितपक्षिकम्
वातस्कन्धनिखातान्तवहत्त्रिपथगाजलम् । आश्चर्यालोकनव्यग्रसञ्चरत्त्रिदशार्भकम्
सन्देहसञ्चरद्वज्रचक्रशूलासिशक्तिमत् । क्वचिन् निर्भित्तिसदनगायत्तुम्बुरुनारदम्
मेघमार्गमहामेघमहारम्भाकुलं क्वचित् । चित्रन्यस्तसमाकारमूककल्पान्तवारिदम्
उत्पक्षकज्जलाद्रीन्द्रसुन्दराम्भोधरं क्वचित् । क्वचित् कनकनिष्ष्यन्दकान्ततापादवारिदम्
क्वचिच् चन्द्राभतापाढ्यवृष्टमूकाम्बुदांशुकम् । क्वचिन् निष्पवनाम्भोधिसंशान्तं शून्यताजलम्
क्वचिद् वातनदीप्रौढविमानतृणपल्लवम् । क्वचिच् चलदलिव्रातपृष्ठत्वक्कान्तिनिर्मलम्
क्वचिन् मेरुदरीकल्पवातधूलिविधूसरम् । क्वचिद् विमानगीर्वाणप्रभाभिश् चित्रिताङ्गनम्
क्वचिन् निरम्बरोन्मत्तमातृमण्डलमालितम् । क्वचिन् नित्यरवक्षीवक्षुब्धयोगीश्वरीगणम्
क्वचिच् छान्तसमाधिस्थविश्रान्तमुनिमण्डलम् । समं दूरास्तसंरम्भं साधुचित्तमनोहरम्
गायत्किन्नरगन्धर्वसुरस्त्रीमण्डलं क्वचित् । क्वचित् स्तब्धपुराकीर्णं वहत्सुरवरं क्वचित्