तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् । संसारजालम् आभोगि प्रभो प्रतिविषायते
तादृशस् स्यान् महासत्त्वः क इवास्मिन् महीतले । प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः
इति नो येयम् आयाता शाखाप्रसरशालिनी । आपत् ताम् अलम् उद्धर्तुं समुदेतु दयापरः
मनसि मोहम् अपास्य महामनास् सकलम् आर्तिमतः किल साधुताम् । सफलतां नयतीह तमोहरन् दिनकरो भुवि भास्करताम् इव
एवं चेत् तन् महाप्राज्ञं भवन्तो रघुनन्दनम् । इहानयन्तु त्वरितं हरिणं हरिणा इव
एष मोहो रघुपतेर् नापद्भ्यो न च रागतः । विवेकवैराग्यकृतो बोध एष महोदयः
इहायातु क्षणाद् रामस् तद् इहैव वयं क्षणात् । मोहं तस्यापनेष्यामो मरुतो ऽद्रेर् घनं यथा
एतस्मिन् मार्जिते युक्त्या मोहे च रघुनन्दनः । विश्रान्तिम् एष्यति पदे तस्मिन् वयम् इवोत्तमे
सत्यतां मुदितां प्रज्ञां विश्रान्तिं च समेत्य सः । पीनतां वरवर्णत्वं पीतामृत इवैष्यति
निजां च प्रकृताम् एव व्यवहारपरम्पराम् । परिपूर्णमना मान्य आचरिष्यत्य् अखण्डिताम्
भविष्यति महासत्त्वो ज्ञातलोकपरावरः । सुखदुःखदशाहीनस् समलोष्टाश्मकाञ्चनः
इत्य् उक्ते मुनिनाथेन राजा सम्पूर्णमानसः । प्राहिणोद् रामम् आनेतुं भूयो दूतपरम्पराम्
एतावता च कालेन रामो निजगृहासनात् । पितुस् सकाशम् आगन्तुम् उत्थितो ऽर्क इवाचलात्
वृतः कतिपयैर् भृत्यैर् भ्रातृभ्यां चाजगाम ह । तत् पुण्यं पितुर् आस्थानं स्वर्गं सुरपतेर् इव
दूराद् एव ददर्शासौ रामो दशरथं तदा । वृतं राजसमूहेन देवौघेनेव वासवम्
वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर् द्वयोः । सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम्
चारुचामरहस्ताभिः कान्ताभिस् समुपासितम् । ककुब्भिर् इव मूर्ताभिस् संस्थिताभिर् यथोचितम्
वसिष्ठविश्वामित्राद्यास् तथा दशरथादयः । ददृशू राघवं दूराद् उपायान्तं गुहोपमम्
सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् । श्रितं सकलसेव्येन गम्भीरेण स्वरेण च
सौम्यं समशुभाकारं विनयोदारम् ऊर्जितम् । कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम्
समुद्यद्यौवनारम्भम् उद्योगशमशोभितम् । अनुद्विग्नम् अनायासं पूर्णप्रायमनोरथम्
विचारितजगद्यात्रं पवित्रगुणगोचरम् । महासत्त्वैकलोभेन गुणैर् इव समाश्रितम्
उदारसारम् आपूर्णम् अन्तःकरणकोटरम् । अविक्षुभितया वृत्त्या दर्शयन्तम् अनुत्तमम्
एवं गुणगणाकीर्णो दूराद् एव रघूद्वहः । परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः
प्रणनाम चलच्चारुचूडामणिमरीचिना । शिरसा वसुधाकम्पलोलमानाचलश्रिया
प्रथमं पितरं पश्चान् मुनीन् मान्यैकम् आनतः । ततो विप्रांस् ततो बन्धूंस् ततो ऽधिकगुणान् गुरून्
जग्राह चात्मना दृष्ट्वा मनाक् स्वादुगिरा तथा । राजलोकेन विहितां स प्रणामपरम्पराम्
विहिताशीर् मुनिभ्यां तु रामस् स शममानसः । आससाद पितुः पुण्यं समीपं सुरसुन्दरः
पादाभिवन्दनरतं तम् अथासौ महीपतिः । शिरस्य् अभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः
शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा । आलिलिङ्ग घनस्नेहं राजहंसो ऽम्बुजं यथा