देहस् त्व् अयं न म्रियते न च जीवति किञ्चन । के किल स्वप्नसङ्कल्पभ्रान्तेर् मरणजीविते
जीवितं मरणं चैतत् सङ्कल्पपुरुषे यथा । असत्यम् एव भात्य् एतद् अस्मिन् पुत्रि शरीरके
तद् एतद् उपदिष्टं मे ज्ञानं देवि त्वयामलम् । यस्मिञ् श्रुतिं गते शान्तिम् एति विश्वविषूचिका
अत्रोपकुरुते को हि को ऽभ्यासः कीदृशो ऽथवा । स कथं पोषम् आयाति पुष्टे तस्मिंश् च किं भवेत्
यद् एव क्रियते किञ्चिद् येन येन यदा यदा । विनाभ्यासेन तन् नेह सिद्धिम् एति कदाचन
तच्चिन्तनं तत्कथनम् अन्योऽन्यं तत्प्रबोधनम् । तद्गतप्राणमननं ब्रह्माभ्यासं विदुर् बुधाः
येषां त्व् अन्तं गतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता विज्ञेया ब्रह्मसेवकाः
अध्यात्मशास्त्रचिन्ताभिर् येषां गच्छन्ति रात्रयः । वासनातानवोत्काभिस् ते ब्रह्माभ्यासिनस् स्थिताः
ये विरक्ता महात्मानो भोगभावनतानवम् । भावयन्त्य् अभवायान्तर् भव्या भुवि जयन्ति ते
उदितौदार्यसौन्दर्या वैराग्यरसरञ्जिता । आनन्दस्यन्दिनी येषां मतिस् ते ऽभ्यासिनः परे
अत्यन्ताभावसम्पत्तिं ज्ञातुं ज्ञेयस्य वस्तुनः । युक्त्या शास्त्रे यतन्ते ये ते ब्रह्माभ्यासिनस् स्थिताः
सर्गादाव् एव नोत्पन्नं दृश्यं नास्त्य् एव तत् सदा । इदं जगद् अहं चेति बोधाभ्यासं विदुः परे
दृश्यासम्भवबोधेन रागद्वेषादितानवे । रतिर् बलोदिता यासौ ब्रह्माभ्यास उदाहृतः
दृश्यासम्भवबोधेन रागद्वेषादितानवम् । तप इत्य् उच्यते लोके दृश्यदोषस् तु दुःखकृत्
दृश्यासम्भवबोधे हि ज्ञानं ज्ञेयस्य कथ्यते । तदभ्यासेन निर्वाणम् इत्य् अभ्यासो महोदयः
भवबहुलनिशानितान्तनिद्रा सततविवेकविबोधवारिसेकैः । प्रगलति हिमशीतलैर् इवोच्चैः शरदि महामिहिकेव चेतसीति
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
इति सङ्कथनं कृत्वा तस्यां निशि वराङ्गने । सुप्ते परिजने नूनम् अथान्तःपुरमण्डपे
दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसी । पुष्पपूरणसुस्फीतमांसलामोदमन्थरे
अम्लानमालावसनशवपार्श्वासनस्थिते । सकलामलपूर्णेन्दुवदनोद्द्योतितास्पदे
समाधिस्थानकं गत्वा तस्थतुर् निश्चलाङ्गके । रत्नस्तम्भाद् इवोत्कीर्णे चित्रभित्ताव् इवार्पिते
सर्वास् तत्यजतुश् चिन्तास् सङ्कोचं समुपागते । दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके
बभूवतुर् भृशं शान्ते शुद्धे स्पन्दविवर्जिते । गिरौ शरदि निर्वात इव वृष्ट्याभ्रमालिके
निर्विकल्पसमाधानाज् जहतुर् व्योम्नि संविदम् । यथा कल्पलते कान्ते पूर्णम् ऋत्वन्तरे रसम्
अहं जगद् इति भ्रान्तेर् दृश्यस्यादाव् अनुद्भवः । यदा ताभ्याम् अवगतस् स्वात्यन्ताभावनात्मकः
तदा दृश्यपिशाचो ऽयम् अलम् अस्तङ्गतस् तयोः । असत्त्वाद् एव चास्माकं शशशृङ्गम् इवानघ
आदाव् एव हि यन् नास्ति वर्तमाने ऽपि तत् तथा । भातं चाभातम् एवातो मृगतृष्णाम्बुवज् जगत्
स्वभावः केवलश् शान्तस् स्त्रीद्वयं तद् बभूव ह । चन्द्रार्कादिपदार्थौघदूरमुक्तम् इवाम्बरम्
तेनैव ज्ञानदेहेन ततार ज्ञप्तिदेवता । मानुषी त्व् इतरेणाशु ज्ञानाज्ञानानुरूपिणा
गेहान्तर् एव प्रादेशमात्रम् आरुह्य वै दिवः । बभूवतुश् चिदाकाशरूपिण्यौ व्योमगाकृती