यद् वेदं भासते किञ्चित् तत् तस्यैव निरामयम् । कचनं काञ्चनाख्यानकान्तस्यातिमणेर् इव
एतावन्तं चिरं कालम् एवं देवि वयं वद । भ्रामिताः के च नामेमे द्वैताद्वैतविकल्पनैः
अविचारेण तरले भ्रान्तासि चिरम् आकुला । अविचारस् स्वभावोत्थस् स विचाराद् विनश्यति
अविचारो विचारेण निमेषाद् एव नश्यति । एषो ऽसन्न् एव तेनान्तर् अविद्यैषा न विद्यते
तस्मान् नैवाविचारो ऽस्ति नाविद्या नैव बन्धनम् । न मोक्षो ऽस्ति निराबाधं शुद्धबोधस् त्व् इदं जगत्
एतावन्तं यदा कालं त्वयैतन् न विचारितम् । तदा न सम्प्रबुद्धा त्वं भ्रान्तैवार्णव आकुला
अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी । वासनातानवे बीजं पतितं तव चेतसि
आदाव् एव हि नोत्पन्नं दृश्यं संसारनाटकम् । यदा तदा कथं केन वास्यते वासनापि का
अत्यन्ताभावसम्पत्तौ द्रष्टृदृश्यदृशाम् अतः । एकध्याने परं रूढे निर्विकल्पसमाधिनि
वासनाक्षयबीजे ऽस्मिन् किञ्चिद् अङ्कुरिते हृदि । क्रमान् नोदयम् एष्यन्ति रागद्वेषादिका दृशः
संसारसम्भवश् चायं निर्मूलत्वम् उपैष्यति । निर्विकल्पसमाधानं प्रतिष्ठाम् अलम् एष्यति
विगतकलनकालिमाकलङ्का गगनकलान्तरनिर्मला बलेन । सकलकरणकार्यकारणान्तः कतिपयकार्यवशाद् भविष्यसीति
यथा स्वप्नपरिज्ञानात् स्वप्नदेहो न वास्तवः । अनुभूतो ऽप्य् अयं तद्वज् जाग्रद्देहो न वास्तवः
यथा स्वप्नपरिज्ञानात् स्वप्नदेहो ऽपि शाम्यति । वासनातानवात् तद्वज् जाग्रद्देहो ऽपि शाम्यति
स्वप्नसङ्कल्पदेहान्ते देहो ऽयं चेत्यते यथा । तथा जाग्रद्भावनान्तर् उदेत्य् एवातिवाहिकः
स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता । जाग्रत्य् अवासनाबीजे तथोदेति विमुक्तता
येयं तु जीवन्मुक्तानां वासना सा न वासना । शुद्धसत्त्वाभिधानं तत् सत्तासामान्यम् उच्यते
या सुप्तवासना निद्रा सा सुषुप्तम् इति स्मृता । यत् सुप्तवासनं जाग्रत् स घनो मोह उच्यते
प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते । जाग्रत्य् अपि भवत्य् एतद् विदिते परमे पदे
प्रक्षीणवासना येह जीवतां जीवितस्थितिः । अमुक्तैर् अपरिज्ञाता सा जीवन्मुक्तिर् उच्यते
शुद्धसत्त्वानुपतितं चेतः प्रभिन्नवासनम् । आतिवाहिकताम् एति हिमं तापाद् इवाप्लुतम्
आतिवाहिकतां यातं बुद्धं चित्तान्तरैर् मनः । सर्गजन्मान्तरगतैस् सिद्धैर् मिलति नेतरत्
यदा ते ऽयम् अहम्भावस् स्वाभ्यासाच् छान्तिम् एष्यति । तदोदेष्यति ते स्फारा दृश्यान्ते बोधता स्वयम्
आतिवाहिकता ज्ञाता स्थितिं ते याति शाश्वतीम् । यदा तदान्यसङ्कल्पालोकात् प्रकृतिपावनी
वासनातानवे तस्मात् कुरु यत्नम् अनिन्दिते । तस्मिन् प्रौढिम् उपायाते जीवन्मुक्ता भविष्यसि
यावन् न पूरितस् त्व् एष निर्मलो बोधचन्द्रमाः । तावद् देहम् इह स्थाप्य लोकान्तरम् अवेक्ष्यताम्
मांसदेहो मांसदेहेनैव संश्लेषम् ऋच्छति । न तु चित्तशरीरेण व्यवहारेषु कर्मसु
यथानुभवम् एवैतद् यथास्थितम् उदाहृतम् । आबालसिद्धं संसिद्धं न नाम वरशापवत्
अवबोधघनाभ्यासाद् देहस्यास्यैव जायते । संसारवासनाकार्श्यं नूनं चित्तशरीरता
उदेष्यन्ती च सैषात्र केनचिन् नोपलक्ष्यते । केवलं तु जनैर् देहो म्रियमाणो ऽवलोक्यते