यद् अस्ति नाम तत्रैष नाशानाशक्रमो भवेत् । वस्तुतो नास्ति यत् त्व् एव नाशस् स्यात् तत्र कीदृशः
रज्ज्वां सर्पभ्रमे नष्टे सत्यबोधवशात् सुते । सर्पो न नष्टस् तन् नष्टो वेत्य् एवं केव सङ्कथा
यथा सत्यपरिज्ञानाद् दृश्यते नाधिभौतिकः । तथातिवाहिकज्ञानाद् दृश्यते नाधिभौतिकः
कल्पना विनिवर्तेत कल्पिता यदि केनचित् । सा शिला समपास्तैव या नेहास्ति कदाचन
परस्परं परापूर्णम् इदं देहादिकं स्थितम् । इति सत्यं वयं भद्रे पश्यामो नासि पश्यसि
आदिसर्गे भवेच् चित्त्वं कल्पनाकलितं यदा । तदा ततःप्रभृत्य् एकं स्वत्वं दृश्यम् इवेक्ष्यते
एकस्मिन्न् एव संशान्ते दिक्कालाद्यविभागिनि । विद्यमाने परे तत्त्वे कल्पनावसरः कुतः
कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि । सत्यत्वं च यथा स्वप्नसङ्कल्पनगरादिषु
नास्त्य् एव सत्यानुभवे तथा नास्त्य् एव चित्पदे । कल्पनं व्यतिरिक्तात्म तत्स्वभावाद् अनामयात्
यथा नास्त्य् अम्बरे पांसुः परे नास्ति तथा कला । अकलाकलनं शान्तम् इदम् एकम् अजं ततः
यद् वेदं भासते किञ्चित् तत् तस्यैव निरामयम् । कचनं काञ्चनाख्यानकान्तस्यातिमणेर् इव
एतावन्तं चिरं कालम् एवं देवि वयं वद । भ्रामिताः के च नामेमे द्वैताद्वैतविकल्पनैः
अविचारेण तरले भ्रान्तासि चिरम् आकुला । अविचारस् स्वभावोत्थस् स विचाराद् विनश्यति
अविचारो विचारेण निमेषाद् एव नश्यति । एषो ऽसन्न् एव तेनान्तर् अविद्यैषा न विद्यते
तस्मान् नैवाविचारो ऽस्ति नाविद्या नैव बन्धनम् । न मोक्षो ऽस्ति निराबाधं शुद्धबोधस् त्व् इदं जगत्
एतावन्तं यदा कालं त्वयैतन् न विचारितम् । तदा न सम्प्रबुद्धा त्वं भ्रान्तैवार्णव आकुला
अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी । वासनातानवे बीजं पतितं तव चेतसि
आदाव् एव हि नोत्पन्नं दृश्यं संसारनाटकम् । यदा तदा कथं केन वास्यते वासनापि का
अत्यन्ताभावसम्पत्तौ द्रष्टृदृश्यदृशाम् अतः । एकध्याने परं रूढे निर्विकल्पसमाधिनि
वासनाक्षयबीजे ऽस्मिन् किञ्चिद् अङ्कुरिते हृदि । क्रमान् नोदयम् एष्यन्ति रागद्वेषादिका दृशः
संसारसम्भवश् चायं निर्मूलत्वम् उपैष्यति । निर्विकल्पसमाधानं प्रतिष्ठाम् अलम् एष्यति
विगतकलनकालिमाकलङ्का गगनकलान्तरनिर्मला बलेन । सकलकरणकार्यकारणान्तः कतिपयकार्यवशाद् भविष्यसीति
यथा स्वप्नपरिज्ञानात् स्वप्नदेहो न वास्तवः । अनुभूतो ऽप्य् अयं तद्वज् जाग्रद्देहो न वास्तवः
यथा स्वप्नपरिज्ञानात् स्वप्नदेहो ऽपि शाम्यति । वासनातानवात् तद्वज् जाग्रद्देहो ऽपि शाम्यति
स्वप्नसङ्कल्पदेहान्ते देहो ऽयं चेत्यते यथा । तथा जाग्रद्भावनान्तर् उदेत्य् एवातिवाहिकः
स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता । जाग्रत्य् अवासनाबीजे तथोदेति विमुक्तता
येयं तु जीवन्मुक्तानां वासना सा न वासना । शुद्धसत्त्वाभिधानं तत् सत्तासामान्यम् उच्यते
या सुप्तवासना निद्रा सा सुषुप्तम् इति स्मृता । यत् सुप्तवासनं जाग्रत् स घनो मोह उच्यते
प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते । जाग्रत्य् अपि भवत्य् एतद् विदिते परमे पदे
प्रक्षीणवासना येह जीवतां जीवितस्थितिः । अमुक्तैर् अपरिज्ञाता सा जीवन्मुक्तिर् उच्यते