यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितो ऽभवत् । तं सर्गं तं गिरिग्रामं नय मां समवेक्षितुम्
अचेत्यचिद्रूपमयीं परमां पावनीं दृशम् । अवलम्ब्येमम् आकारम् अवमुच्य भवामला
ततः प्राप्स्यस्य् असन्देहं व्योमात्मानं नभस्स्थितम् । भूमिष्ठनरसङ्कल्पो गगनान्तः पुरं यथा
एवंस्थितं तं पश्यावस् सह सर्गम् अनन्तरम् । एवं तद्दर्शनद्वारे देहो हि परमार्गला
अमुना देवि देहेन जगद् अन्यद् अवाप्यते । न वा कस्माद् अत्र युक्तिं कथयानुग्रहग्रहात्
जगन्तीमान्य् अमूर्तानि मूर्तिमन्ति मुधाग्रहात् । भवद्भिर् अवबुद्धानि हेमनीवोर्मिकाधिया
हेम्न्य् ऊर्मिकारूपवने ऽप्य् ऊर्मिकात्वं न विद्यते । यथा तथा जगद्रूपे जगत्त्वं नास्ति चित्पदे
जगद् आकाशम् एवेदं ब्रह्मैव न तु दृश्यता । दृश्यते काचिद् अप्य् अत्र धूलिर् अम्बुनिधाव् इव
ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति । सर्गादिनाम्ना प्रथितस् स्वभावो ऽस्यैवम् ईदृशः
न ब्रह्मजगतोर् अस्ति कार्यकारणतोदयः । कारणानाम् अभावेन सर्वेषां सहकारिणाम्
यावद् अभ्यासयोगेन न शान्ता भेदधीस् तव । नूनं तावद् अतद्रूपा न ब्रह्म परिपश्यसि
तत्र रूढिम् उपायाता इमे ये त्व् अस्मदादयः । अभ्यासाद् ब्रह्मसंवित्तेः पश्यामस् ते हि तत् पदम्
सङ्कल्पनगरस्येव ममाकशमयं वपुः । ब्रह्मैव वातः पश्यामि देहेनानेन तत् पदम्
विशुद्धज्ञानदेहाहं यथैते पद्मजादयः । ब्रह्मात्मजगदादीदम् अङ्गम् अस्माकम् अङ्गने
तवाभ्यासं विना बालो नाकारो ब्रह्मतां गतः । स्थितः कलनरूपात्मा तेन तन् नानुपश्यसि
यत्र स्वसङ्कल्पपुरं स्वदेहे नानुलभ्यते । तत्रान्यसङ्कल्पपुरं स्वदेहे नानुलभ्यते
तस्माद् एनं परित्यज्य देहं चिद्व्योमरूपिणी । तत् पश्यस्य् एतद् एवाशु कुरु कार्यविदां वरे
सङ्कल्पनगरं सत्यं यथा सङ्कल्पिनं प्रति । सदेहं वा विदेहं वा नेतरं प्रति किञ्चन
आदिसर्गे जगद्भ्रान्तिर् यथेयं स्थितिम् आगता । तथा तदाप्रभृत्य् एव नियतिः प्रौढिम् आगता
त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणीगृहम् । सहेतीदम् अहं वच्मि कथं गन्तव्यम् अम्ब हे
इह देहं इमं न्यस्य शुद्धसत्त्वानुपातिना । चेतसा तत् परं यामि लोकं त्वं कथयेति तु
सङ्कल्पव्योमवृक्षस् ते यथा सन्न् अपि खात्मकः । न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा
शुद्धैकसत्त्वनिर्माणचित्तरूपस्य तत् किल । प्रतिभानम् अतस् तस्माद् परमाद् भिद्यते मनाक्
सो ऽयम् एतादृशो देहो नैनं सन्त्यज्य याम्य् अहम् । अनेनैव तम् आप्नोमि देशं गन्धम् इवानिलः
यथा जलं जलैर् वाग्निर् अग्निना वायुनानिलः । मिलत्य् एवं मनोदेहो देहैर् अन्यैर् मनोमयैः
न हि पार्थिवतां संविद् एत्य् अपार्थिवसंविदा । एकत्वं कल्पनाशैलशैलयोः क्वाहतिर् मिथः
आतिवाहिक एवायं त्वादृशश् चित्तदेहकः । आधिभौतिकबुद्ध्या तु गृहीतश् चिरभावनात्
यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमैः । यथा व्यसनिसङ्कल्पे यथा गन्धर्वपत्तने
वासनातानवं नूनं यदा ते स्थितिम् एष्यति । तदाधिभौतिकीभावं पुनर् एति न देहकः
आतिवाहिकदेहत्वप्रत्यये घनतां गते । तम् अवाप्नोत्य् अयं देहो दशामोहे विनश्यति