नानुभूते ऽनुभूतत्वं संविदो ऽन्तर् उदेत्य् अपि । स्वप्नभ्रमाद् अनन्यस्मिन् पितरीव पितृस्मृतिः
कदाचित् स्मृतिताम् त्यक्त्वा प्रतिभामात्रम् एव सत् । भाति प्रथमसर्गेशरूपेण तदनु क्रमात्
दृश्यं त्रिभुवनादीदम् अनुभूतस्मृतौ स्थितम् । केषाञ्चित् तन्वि केषाञ्चिन् नानुभूतस्मृतौ स्थितम्
प्रतिभासत एवेदं केषाञ्चित् स्मरणं विना । चिदणूनां प्रजेशत्वं काकतालीयवद् यतः
अत्यन्तविस्मृतं दृश्यं मोक्ष इत्य् अभिधीयते । ईप्सितानीप्सिते तत्र न स्तः केचन कस्यचित्
अत्यन्ताभावसम्पत्तिं विनाहन्त्वजगत्स्थितेः । अनुत्पादमयीम् एव नोदेत्य् एव विमुक्तता
रज्ज्वां सर्पभ्रमस् सर्पशब्दार्थासम्भवं विना । अनुत्पादमयो नित्यं शान्तो ऽपि न हि शाम्यति
अर्धशान्तो न शान्तो ऽसौ समेत्य् अन्यतया पुनः । उदेत्य् एकपिशाचान्ते पिशाचो ऽन्यो ऽप्य् अधीमतः
संसारश् चायम् आभोगी परम् एवेति निश्चयः । कारणाभावतो भाति यद् इहाभावम् एति तत्
ब्राह्मणब्राह्मणीरूपे सर्गे या कारणं स्मृतिः । कथम् अभ्युदिता सा स्यात् स्मरणीयम् इदं विना
पितामहस्मृतिस् तत्र कारणं तस्य च स्मृतिः । पूर्वं न सम्भवत्य् एव मुक्तत्वात् पूर्वजन्मनः
पूर्वं न सम्भवत्य् एव स्मरणीया चितिस् स्वयम् । पद्मजादित्वम् आयाति चेतनस्य यथास्थितेः
अभूवम् अहम् इत्य् अन्यः प्रजानाथः प्रजायते । काकतालीयवत् कश्चिद् भवति प्रतिभामयः
एवम् अभ्युदिते लोके न किञ्चिन् न कदाचन । क्वचिद् अभ्युदितं नाम केवलं चिन्नभस् स्थितम्
द्विविधायास् स्मृतेर् अस्याः कारणं परमं पदम् । कार्यकारणभावो ऽसाव् एकम् एव चिदम्बरम्
कार्यकारणयोस् सत्ता कारणैस् सहकारिभिः । कार्यकारणयोर् ऐक्यं तदभावान् न शाम्यति
महाचिद्रूपम् एवेदं स्मरणाद् विद्धि वेदनम् । कार्यकारणभावो ऽत्र तेन शब्दो न वास्तवः
एवं न किञ्चिद् उत्पन्नं दृश्यं त्रिजगदाद्य् अपि । चिदाकाशं चिदाकाशे केवलं स्वात्मनि स्थितम्
अहो नु परमा दृष्टिर् दर्शिता देवि मे त्वया । रूपश्रीर् जागती प्रातःप्रभयेवेक्षणद्युतेः
इदानीम् अहम् एतस्यां यावत् परिणता दृशि । नाभ्यासेन विना तावद् भिन्द्धीमं देवि कौतुकम्
यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितो ऽभवत् । तं सर्गं तं गिरिग्रामं नय मां समवेक्षितुम्
अचेत्यचिद्रूपमयीं परमां पावनीं दृशम् । अवलम्ब्येमम् आकारम् अवमुच्य भवामला
ततः प्राप्स्यस्य् असन्देहं व्योमात्मानं नभस्स्थितम् । भूमिष्ठनरसङ्कल्पो गगनान्तः पुरं यथा
एवंस्थितं तं पश्यावस् सह सर्गम् अनन्तरम् । एवं तद्दर्शनद्वारे देहो हि परमार्गला
अमुना देवि देहेन जगद् अन्यद् अवाप्यते । न वा कस्माद् अत्र युक्तिं कथयानुग्रहग्रहात्
जगन्तीमान्य् अमूर्तानि मूर्तिमन्ति मुधाग्रहात् । भवद्भिर् अवबुद्धानि हेमनीवोर्मिकाधिया
हेम्न्य् ऊर्मिकारूपवने ऽप्य् ऊर्मिकात्वं न विद्यते । यथा तथा जगद्रूपे जगत्त्वं नास्ति चित्पदे
जगद् आकाशम् एवेदं ब्रह्मैव न तु दृश्यता । दृश्यते काचिद् अप्य् अत्र धूलिर् अम्बुनिधाव् इव
ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति । सर्गादिनाम्ना प्रथितस् स्वभावो ऽस्यैवम् ईदृशः
न ब्रह्मजगतोर् अस्ति कार्यकारणतोदयः । कारणानाम् अभावेन सर्वेषां सहकारिणाम्