अनुभूय क्षणं जीवो मिथ्यामरणमूर्छनाम् । तदैवोन्मेषमात्रेण व्योम्न्य् एव व्योमरूप्य् अपि
आधेयो ऽहम् इहाधारे स्थितो ऽहम् इति चेतति । हस्तपादादिमान् देहो ममायम् इति पश्यति
यदैव चेतति वपुस् तदैवेदं स चेतति । एतस्याहं पितुः पुत्रो वर्षाणीमानि सन्ति मे
इमे मे बान्धवा रम्या ममेदं रम्यम् आस्पदम् । जातो ऽहम् अभवं बालो वृद्धिं यातो ऽहम् ईदृशः
बान्धवाश् चास्य ते सर्वे तथैव विहरन्त्य् अपि । चिदाकाशघनैक्यत्वात् स्वात्मन्य् अपि भवन्ति ते
एवं नामोदिते ऽप्य् अस्याश् चितेस् संसारषण्डके । न किञ्चिद् अप्य् अभ्युदितं स्थितं व्योमैव निर्मलम्
स्वप्ने द्रष्टरि यद्वच् चित् तद्वद् दृश्ये चिद् एव सा । सर्वदैकतया तस्मात् सा स्वप्ने द्रष्टृदर्शनम्
यथा स्वप्ने तथोदेति परलोकदृशा चितिः । परलोके यथोदेति तथैवेहाप्य् उदेति सा
तत् स्वप्नपरलोकेहलोकानाम् असतां सतां । न मनाग् अपि भेदो ऽस्ति वीचीनाम् इव वारिणि
अतो ऽजातम् इदं विश्वम् अजातत्वाद् अनाशि च । खरूपत्वाच् च नास्त्य् एव यच् च भाति चिद् एव सा
यथैषा चेत्यनिर्हीना परमव्योमरूपिणी । सचेत्यापि तथैवैषा परमव्योमरूपिणी
यस्माच् चेत्यम् अतो नान्यद् वीचित्वाद् इव वारिता । वीचित्वं च न चैवास्ति शशशृङ्गवद् एव हि
सैव चेत्यम् इवापन्ना स्वभावाद् अच्युताप्य् अलम् । तस्मान् नास्त्य् एव दृश्यो ऽर्थः कुतो ऽतो द्रष्टृदृश्यधीः
निमेषेणैव जीवस्य मृतिमोहाद् अनन्तरम् । त्रिजगत्सर्गदृश्यश्रीः प्रतिभाम् उपगच्छति
यथादेशं यथाकालं यथारम्भं यथाक्रमम् । यथोत्पादं यथामातृ यथापितृ यथौरसम्
यथावयो यथासंविद् यथास्थानं यथेहितम् । यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम्
अजातम् एव जातो ऽहम् इति पश्यति चिद्वपुः । देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियाणि च
झगित्य् एव मृतेर् अन्ते वपुः पश्यति यौवनम् । एषा माता पिता त्व् एष बालो ऽभूवम् अहं त्व् इति
नानुभूतो ऽनुभूतो वा यस् स्यात् स्मृतिमयः क्रमः । पश्चाद् उदेत्य् असौ तस्य पुष्पस्येव फलोदयः
निमेषेणैव सकलो गत इत्य् अनुभूयते । रात्रिर् द्वादशवर्षाणि हरिश्चन्द्रे तथाप्य् अभूत्
कान्ताविरहिणाम् एकं वासरं वत्सरायते । मृतो जातो ऽहम् अन्यो मे पितेति स्वप्नधाम्नि च
अभुक्तस्यैव भोग्यस्य भुक्तधीर् उपजायते । भुक्ते चाभुक्तधीर् दृष्टम् इत्य् अलं कितवादिषु
शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः । विप्रलम्भो ऽपि लाभश् च मदस्वप्नादिसंविदि
तैक्ष्ण्यं यथा मरिचबीजकणे स्थितं स्वं स्तम्भे ऽथवा रचितपुत्रकजालम् अन्तः । दृश्यं त्व् अनन्यद् इदम् एवम् अजे ऽस्ति शान्तं कस्यास्ति बन्धनविमोक्षदृशः कुतः काः
प्रतिभान्ति जगन्त्य् आशु मृतिमोहाद् अनन्तरम् । जीवस्योन्मीलनाद् अक्ष्णो रूपाणीवाखिलान्य् अलम्
दिक्कालकलनाकाशधर्मकर्ममयानि च । परिस्फाराण्य् अनन्तानि कल्पान्तस्थैर्यवन्ति च
नानुभूतं न यद् दृष्टं तन् मया कृतम् इत्य् अपि । तत् क्षणात् स्मृतिताम् एति स्वप्ने स्वमरणं यथा
भ्रान्तिर् एवम् अनन्तेयं चिद्व्योमव्योम्नि भासुरा । अपकुड्या जगन्नाम्नी नगरीकल्पनात्मिका
अहं जगद् इयं सर्गस्मृतिर् एवेति जृम्भति । दूरकल्पक्षणाभ्यासविपर्यासैककारिणी
नानुभूतानुभूता च ज्ञप्तिर् इत्थं द्विरूपिणी । पूर्वं कारणरिक्तेव चिद्रूपैव प्रवर्तते