स ते भर्ताद्य सम्पन्नो द्विजो भूपत्वम् आगतः । यासाव् अरुन्धती नाम ब्राह्मणी सा त्वम् अङ्गने
इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती । चक्रवाकाव् इव नवौ भुवि जातौ शिवाव् इव
एष ते कथितस् सर्वः प्राक्तनस् संसृतिभ्रमः । भ्रान्तिमात्रकम् आकाशम् एव जीवस्वरूपधृत्
भ्रमाद् अस्माच् चिदादर्शे भ्रमो ऽयं प्रतिबिम्बितः । असत्य एव चासत्याद् भवतोर् भवभङ्गदः
तस्माद् भ्रान्तिमयः कस् स्यात् को वा भ्रान्त्युज्झितो भवेत् । सर्गो निरर्गलानल्पबोधान् नान्यद् विजृम्भते
इत्य् आकर्ण्य चिरं चारुविस्मयोत्फुल्ललोचना । भूत्वोवाच वचो लीला लीलालसपदाक्षरम्
देवि त्वद्वचनं मिथ्या कथं सम्पन्नम् ईदृशम् । क्व विप्रजीवस् स्वगृहे क्वेमे वयम् इह स्थिताः
तादृग् लोकान्तरं सा भूस् ते शैलास् ता दिशो दश । कथं मान्ति गृहस्यान्तर् मद्भर्ता येष्व् अवस्थितः
मत्त ऐरावणो बद्धस् सिद्धार्थकणकोदरे । मषकेन कृतं युद्धं सिंहौघैर् अणुकोटरे
पद्माक्षे स्थापितो मेरुर् निगीर्णो मधुपायिना । स्वप्नाभ्रगर्जितं श्रुत्वा चित्रे नृत्यन्ति वर्हिणः
असमञ्जसम् एवैतद् यथा सर्वेश्वरेश्वरि । तथा गृहान्तः पृथिवी शैलाश् चेत्य् असमञ्जसम्
यथावद् एतद् देवेशि कथयामलया धिया । प्रसादसुगृहीते हि नोद्विजन्ते महौजसः
नाहं मिथ्या वदामीदं यथावच् छृणु सुन्दरि । भेदनं नियतीनां हि क्रियते नास्मदादिभिः
विभिद्यमानाम् अन्येन स्थापयाम्य् अहम् एव याम् । मर्यादां तां मया भिन्नां को ऽपरः पालयिष्यति
सग्रामं द्विजजीवात्मा तस्मिन्न् एव स्वसद्मनि । व्योम्न्य् एवेदं महीराष्ट्रं व्योमात्मैव प्रपश्यति
प्राक्तनी सा स्मृतिर् लुप्ता युवयोर् उदितान्यथा । स्वप्ने जाग्रत्स्मृतिर् यद्वद् एतन्मरणम् अङ्गने
यथा स्वप्ने त्रिभुवनं सङ्कल्पात् त्रिजगद् यथा । यथा कथार्थसङ्ग्रामो मरुभूमौ यथा जलं
तस्य ब्राह्मणगेहस्य सशैलवनपत्तना । इयम् अन्तस्स्थिता भूमिस् सङ्कल्पादर्शयोर् इव
असत्यैवेयम् आभाति सत्येव घनसर्गता । तस्यासत्यावभासस्य चिद्व्योम्नः कोशकोटरे
असत्याद् यत् समुत्पन्नं स्मृत्या नाम तद् अप्य् असत् । मृगतृष्णातरङ्गिण्यास् तरङ्गो ऽपि न सत्यतः
इदं त्वदीयं सदनं तद्गेहाकाशकोशगम् । विद्धि मां त्वां च सर्वं वा तच् च व्योमैव केवलम्
स्वप्नसङ्गमसङ्कल्पस्वानुभूतिपरम्पराः । प्रमाणान्य् अत्र मुख्यानि सम्बोधाय प्रदीपवत्
स्थितो ब्राह्मणगेहे ऽन्तर् द्विजजीवस् तदन्तरे । ससमुद्रवना पृथ्वी स्थिताब्ज इव षट्पदी
तस्याः कस्मिंश्चिद् एकस्मिन् पेलवे कोटरोदरे । इदं पत्तनम् आभाति केशोण्डुक इवाम्बरे
तस्मिन्न् अस्मिन् पुरे तन्वि तवेदं सदनं स्थितम् । तस्मात् किम् अणुमात्रे ऽन्तर् गजवृन्दम् इव स्थितम्
परमाणौ परमाणौ सन्ति वत्से चिदात्मनि । अन्तर् अन्तर् जगन्तीति केनैतन् नाम सङ्ख्यते
अष्टमं दिवसं विप्रस् स मृतः परमेश्वरि । गतो वर्षगणो ऽस्माकम् अतः कथम् इदं भवेत्
देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथैव च । नास्त्य् एवेति यथान्यायं कथ्यमानं मया शृणु
यथैतत् प्रतिभामात्रं जगत्सर्गावभासनम् । तथैतत् प्रतिभामात्रं क्षणकल्पावभासनं
क्षणकल्पजगत्सर्गत्वत्तामत्तात्मजन्मनाम् । यथावत् प्रतिभासस्य वत्से क्रमम् इमं शृणु