महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् । कचत्काञ्चनमाणिक्यहारकेयूरकुण्डलम्
तम् आलोक्य महीपालम् इदं चिन्तितवान् असौ । अहो नु रम्या नृपता सर्वसौभाग्यभासिता
पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः । कदा स्यां दशदिक्कुञ्जपूरको ऽहं महीपतिः
कदा मे वायवः कुन्दमकरन्दसुगन्धयः । पास्यन्त्य् अन्तःपुरस्त्रीणां सुरतश्रमशीकरान्
कर्पूरेण पुरन्ध्रीणां कीर्णेन यशसा दिशाम् । इन्दूदयावदातानि कदा कुर्यां मुखान्य् अहम्
इत्थं ततःप्रभृत्य् एव विप्रस् सङ्कल्पवान् अभूत् । स्वधर्मनिरतो नित्यं यावज्जीवम् अतन्द्रितः
हिमाशनिर् इवाम्भोजं जर्जरीकर्तुम् आदृता । जरा हार्दान्वितेवैनं जवाद् द्विजम् उपाययौ
आसन्नमरणस्यात्र भार्या म्लानिम् उपाययौ । तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः
माम् अथाराधितवती सा ततस् त्वम् इवाङ्गना । अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद् वरम्
देवि स्वमण्डपाद् एव जीवो भर्तुर् मृतस्य मे । मा यासीद् इत्य् अतस् तस्यास् स एवाङ्गीकृतो मया
अथ कालवशाद् विप्रस् स पञ्चत्वम् उपाययौ । तस्मिन्न् एव गृहाकाशे जीवाकाशतया स्थितः
सम्पन्नः प्राक्तनानल्पसङ्कल्पवशतस् स्वयम् । आकाशवपुर् एवोर्वीपतिः परमशक्तिमान्
प्रभावाज् जितभूपीठः प्रतापाक्रान्तविष्टपः । कृपापालितपातालस् त्रिलोकविजयी नृपः
कालाग्निर् अरिपक्षाणां स्त्रीणां मकरकेतनः । मेरुर् विषयवायूनां साध्वब्जानां दिवाकरः
आदर्शस् सर्वशास्त्राणाम् अर्थिनां कल्पपादपः । पादपीठं द्विजाग्र्याणां राका धर्मामृतत्विषः
स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि । तस्मिन् द्विजे शवीभूते भूताकाशशरीरिणि
सा तस्य ब्राह्मणी भार्या शोकेणात्यन्तकर्षिता । शुष्केव माषशिमिका हृदयेन द्विधागमत्
भर्त्रा सह शवीभूता देहम् उत्सृज्य दूरतः । आतिवाहिकदेहेन भर्तारं समुपाययौ
नदी निखातम् इव तं भर्तारम् अनुसृत्य सा । आजगाम विशोकत्वं सवसन्तेव मञ्जरी
तत्रास्य विप्रस्य सुता गृहाणि भूस्थावरादीनि घनानि सन्ति । अद्याष्टमं वासरम् आप्तमृत्योर् जीवो गिरिग्रामकमन्दिरस्थः
स ते भर्ताद्य सम्पन्नो द्विजो भूपत्वम् आगतः । यासाव् अरुन्धती नाम ब्राह्मणी सा त्वम् अङ्गने
इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती । चक्रवाकाव् इव नवौ भुवि जातौ शिवाव् इव
एष ते कथितस् सर्वः प्राक्तनस् संसृतिभ्रमः । भ्रान्तिमात्रकम् आकाशम् एव जीवस्वरूपधृत्
भ्रमाद् अस्माच् चिदादर्शे भ्रमो ऽयं प्रतिबिम्बितः । असत्य एव चासत्याद् भवतोर् भवभङ्गदः
तस्माद् भ्रान्तिमयः कस् स्यात् को वा भ्रान्त्युज्झितो भवेत् । सर्गो निरर्गलानल्पबोधान् नान्यद् विजृम्भते
इत्य् आकर्ण्य चिरं चारुविस्मयोत्फुल्ललोचना । भूत्वोवाच वचो लीला लीलालसपदाक्षरम्
देवि त्वद्वचनं मिथ्या कथं सम्पन्नम् ईदृशम् । क्व विप्रजीवस् स्वगृहे क्वेमे वयम् इह स्थिताः
तादृग् लोकान्तरं सा भूस् ते शैलास् ता दिशो दश । कथं मान्ति गृहस्यान्तर् मद्भर्ता येष्व् अवस्थितः
मत्त ऐरावणो बद्धस् सिद्धार्थकणकोदरे । मषकेन कृतं युद्धं सिंहौघैर् अणुकोटरे
पद्माक्षे स्थापितो मेरुर् निगीर्णो मधुपायिना । स्वप्नाभ्रगर्जितं श्रुत्वा चित्रे नृत्यन्ति वर्हिणः