एवम् एतद् असत्सर्गो भर्तुस् ते भाति भासुरः । तथैवायम् इहाभाति पश्याम्य् एतद् अहं सुते
यथा पत्युर् अमूर्तो ऽस्मात् सर्गात् सर्गो भ्रमात्मकः । जातस् तथायं वद मे जगत्कुड्यनिवृत्तये
प्राक्स्मृतिर् भ्रान्तिमात्रात्मा सर्गो ऽयम् उदितो यथा । स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु
अस्ति कश्चिच् चिदाकाशे क्वचित् संसारमण्डपः । आकाशकाचदलवच् छादनाच्छादनाकृतिः
मेरुस्तम्भस्थलोकेशपुरश्रीसालभञ्जिकः । चतुर्दशापवरकस् त्रिगर्तो भानुदीपकः
कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः । अनेकपुत्रजरढप्रजेशब्राह्मणास्पदम्
ऋक्षौघकोशकाराढ्यव्योमोर्ध्वतलकालिमा । नभोनिवासिसिद्धौघमषकाहितघुङ्घुमः
पयोदगृहधूमोग्रजालावलितकोणकः । वातमार्गमहावंशस्थितवैमानिकक्रिमिः
सुरासुरादिदुर्बाललीलाकलकलाकुलः । लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः
सरित्स्रोतोऽब्धिसरसीजलोक्षितमहीतलः । पातालभूतलस्वर्गाभोगभासुरकोटरः
तत्र कस्मिंश्चिद् एकस्मिन् कोणापवरकोदरे । शैललोष्टतले ऽस्त्य् एको गिरिग्रामकगर्तकः
अस्मिन् नदीशैलवनोपगूढे साग्निस् सदारस् सुतवान् अरोगः । गोक्षीरवान् राजभयाद् विमुक्तः सर्वातिथिर् धर्मपरो द्विजो ऽभूत्
वित्तवेशवयःकर्मविद्याविभवचेष्टितैः । वसिष्ठस्येव सदृशो न तु वासिष्ठचेतनः
वसिष्ठ इति नाम्नाभूत् तस्याभूद् इन्दुसुन्दरी । नाम्ना त्व् अरुन्धती भार्या भूमिव्योमन्य् अरुन्धती
वित्तवेशवयःकर्मविद्याविभवचेष्टितैः । समेव साप्य् अरुन्धत्या न तु चेतनसत्तया
अकृत्रिमप्रेमरसा विलासालसगामिनी । सास्य संसारसर्वस्वम् आसीत् कुमुदहासिनी
स विप्रस् तस्य शैलस्य सानौ सरसशाद्वले । कदाचिद् उपविष्टस् सन् ददर्शाधो महीपतिम्
समग्रपरिवारेण यान्तम् आखेटकेच्छया । महता सैन्यघोषेण मेरोर् इव बिभित्सया
चामरैः कीर्णचन्द्रांशु पताकाभिर् लतावनम् । कुर्वाणं खं सितच्छत्रमण्डलै रौप्यकुट्टिमम्
अश्वीयाग्निपृषत्पूरपूर्णरेण्वभ्रवर्णवत् । हास्तिकोत्तम्भितकरवाटाट्टालकगोपितम्
महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् । कचत्काञ्चनमाणिक्यहारकेयूरकुण्डलम्
तम् आलोक्य महीपालम् इदं चिन्तितवान् असौ । अहो नु रम्या नृपता सर्वसौभाग्यभासिता
पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः । कदा स्यां दशदिक्कुञ्जपूरको ऽहं महीपतिः
कदा मे वायवः कुन्दमकरन्दसुगन्धयः । पास्यन्त्य् अन्तःपुरस्त्रीणां सुरतश्रमशीकरान्
कर्पूरेण पुरन्ध्रीणां कीर्णेन यशसा दिशाम् । इन्दूदयावदातानि कदा कुर्यां मुखान्य् अहम्
इत्थं ततःप्रभृत्य् एव विप्रस् सङ्कल्पवान् अभूत् । स्वधर्मनिरतो नित्यं यावज्जीवम् अतन्द्रितः
हिमाशनिर् इवाम्भोजं जर्जरीकर्तुम् आदृता । जरा हार्दान्वितेवैनं जवाद् द्विजम् उपाययौ
आसन्नमरणस्यात्र भार्या म्लानिम् उपाययौ । तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः
माम् अथाराधितवती सा ततस् त्वम् इवाङ्गना । अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद् वरम्
देवि स्वमण्डपाद् एव जीवो भर्तुर् मृतस्य मे । मा यासीद् इत्य् अतस् तस्यास् स एवाङ्गीकृतो मया