इति निश्चित्य तां देवीं पूजयाम् आस सा तदा । ददर्श च पुरः प्राप्तां कुमारीरूपधारिणीम्
भद्रासनगतां देवीम् उपविश्य पुरोगता । परमार्थमहाशक्तिं लीलापृच्छद् भुवि स्थिता
अनुकम्प्यस्य नो देवि भजन्त्य् उद्वेगम् उत्तमाः । त्वयैव किल सर्गादौ स्थापितेति पुरास्थितिः
तद् इयं यत् पुरा प्रह्वा पृच्छामि परमेश्वरि । त्वं ब्रूहि त्वत्कृतो नूनं सफलो मे ऽस्त्य् अनुग्रहः
अस्त्य् आदर्शो जगन्नाम्नः खाद् अप्य् अधिकनिर्मलः । यस्य योजनकोटीनां कोटयो ऽवयवो मनाक्
निस्सन्धिबन्धो ऽभिघनो मृदुर् मसृणशीतलः । अचेत्यचिद् इति ख्यातो नाम्ना निर्भित्तिर् अग्रहः
दिक्कालकलनाकाशप्रकाशनियतिक्रमाः । यत्रेमे प्रतिबिम्बन्ति परां परिमितिं गताः
त्रिजगत्प्रतिबिम्बश्रीर् बहिर् अन्तश् च संस्थिता । तत्राम्ब कृत्रिमा का स्यात् कासौ वा स्याद् अकृत्रिमा
अकृत्रिमत्वं सर्गस्य कीदृशं वद सुन्दरि । कीदृशं कृत्रिमत्वं स्याद् यथावत् कथयेति मे
यथाहम् इह तिष्ठामि त्वं च देवि स्थिताम्बिके । असाव् अकृत्रिमस् सर्ग इति देवेशि वेद्म्य् अहम्
यत्राधुना स भर्ता मे स्थितस् सर्गस् स कृत्रिमः । अहं मन्ये यतश् शून्यो देशकालाद्यपूरकः
कृत्रिमो ऽकृत्रिमात् सर्गो न कदाचन जायते । न हि कारणतः कार्यम् उदेत्य् असदृशं क्वचित्
दृश्यते कारणात् कार्यं सुविलक्षणम् अम्बिके । अम्ब्व् आदातुम् अशक्ता मृद् घटस् तज्जस् तदास्पदम्
सम्पद्यते हि यत् कार्यं कारणैस् सहकारिभिः । मुख्यकारणवैचित्र्यं किञ्चित् तस्यावलोक्यते
न च त्वद्भर्तृसर्गस्य किञ्चित् पृथ्व्यादि कारणम् । न भूमण्डलतो भूमिर् जाता तत्र वरानने
गता चिद् इत उड्डीय कुतस् स्याद् इहभूतलम् । सहकारीणि कान्य् एव कारणान्य् अत्र कारणम्
कारणानाम् अभावे ऽपि यद् एति सहकारिणाम् । तत् पूर्वकारणान् नान्यत् सर्वेणेत्य् अनुभूयते
स्मृतिस् सा देवि मद्भर्तुस् तथा स्फारत्वम् आगता । स्मृतेश् च कारणं वेद्मि सर्गो ऽयम् इति निश्चयः
स्मृतिर् आकाशरूपैव यथा तज्जस् तथैव ते । भर्तृसर्गो ऽनुभूतो हि स खम् एव तथाबले
स्मृत्याकाशमयस् सर्गो यथा भर्तुर् ममोदितः । तथैवेमम् अहं मन्ये स सर्गो ऽत्र निदर्शनम्
एवम् एतद् असत्सर्गो भर्तुस् ते भाति भासुरः । तथैवायम् इहाभाति पश्याम्य् एतद् अहं सुते
यथा पत्युर् अमूर्तो ऽस्मात् सर्गात् सर्गो भ्रमात्मकः । जातस् तथायं वद मे जगत्कुड्यनिवृत्तये
प्राक्स्मृतिर् भ्रान्तिमात्रात्मा सर्गो ऽयम् उदितो यथा । स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु
अस्ति कश्चिच् चिदाकाशे क्वचित् संसारमण्डपः । आकाशकाचदलवच् छादनाच्छादनाकृतिः
मेरुस्तम्भस्थलोकेशपुरश्रीसालभञ्जिकः । चतुर्दशापवरकस् त्रिगर्तो भानुदीपकः
कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः । अनेकपुत्रजरढप्रजेशब्राह्मणास्पदम्
ऋक्षौघकोशकाराढ्यव्योमोर्ध्वतलकालिमा । नभोनिवासिसिद्धौघमषकाहितघुङ्घुमः
पयोदगृहधूमोग्रजालावलितकोणकः । वातमार्गमहावंशस्थितवैमानिकक्रिमिः
सुरासुरादिदुर्बाललीलाकलकलाकुलः । लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः
सरित्स्रोतोऽब्धिसरसीजलोक्षितमहीतलः । पातालभूतलस्वर्गाभोगभासुरकोटरः