तद्वेशांस् तन्मयाचारांस् तथा तान् एव बालकान् । ता एव बालवनितास् तांस् तान् एव च मन्त्रिणः
तान् एव भुवि भूपालांस् तांस् तान् एव च पण्डितान् । तान् एव नर्मसचिवान् भृत्यांस् तान् एव तादृशान्
अथान्यान् अन्यपूर्वांश् च पण्डितान् सुहृदस् तथा । व्यवहारांस् तथा चान्यान् पौरान् अन्यांस् तथैव च
मध्याह्नकालं दिवसं घनघर्माकुला दिशः । अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि
महीं ह्रदनदीशैलपुरपत्तनमण्डिताम् । नानानगरविन्यासजङ्गलग्रामसङ्कुलाम्
द्विर् अष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् । प्राक्तनीं जनतां सर्वां समस्तान् ग्रामवासिनः
सा तान् आलोक्य ललना चिन्तापरवशाभवत् । ते ऽस्मिन् नगरवास्तव्याः कष्टं सर्वे मृता इति
पुनःप्रज्ञप्तिबोधेन प्राक्तनान्तःपुरान्तरम् । आजगाम ददर्शात्र सार्धरात्रं तथैव तत्
शवरूपं स्वभर्तारं पुष्पसम्भारगोपितम् । निद्राकुलं परिजनसन्निवेशं तथैव तम्
अथ सोत्थापयाम् आस निद्राक्रान्तं सखीजनम् । आह चातीव मे दुःखम् आस्थानं दीयताम् इति
भर्तुस् सिंहासनस्यास्य पार्श्वे तिष्ठाम्य् अहं यदि । पश्यन्ती सभ्यसङ्घातं तत् प्रजीवामि नान्यथा
स राजपरिवारो ऽथ तयेत्य् उक्तो यथाक्रमम् । आसीद् अनिद्रस् सुव्यग्रस् सर्वस् सर्वस्वकर्मसु
पौरान् सभ्यान् समानेतुं ययुर् याष्टीकपङ्क्तयः । व्यवहारं कलयितुम् उर्वीम् अर्ककरा इव
आस्थानभूमिं भृत्याश् च मार्जयाम् आसुर् आदृताः । प्रावृट्पयोदमलिनं खं शरद्वासरा इव
अङ्गनं प्रति दीपौघास् तस्थुः पीततमोऽम्भसः । आश्चार्यदर्शनायेव प्राप्ता नक्षत्रपङ्क्तयः
जनताः पूरयाम् आसुः पूरैर् अजिरभूमिकाः । अब्धीन् प्रलयसंशुष्कान् पुरासर्गे इवाम्भसा
आजग्मुर् मन्त्रिसामन्तास् स्वं स्वं स्थानम् अनिन्दिताः । त्रैलोक्ये पुनर् उत्पन्ने लोकपाला यथा दिशः
ववुर् आकीर्णकर्पूरसान्द्रा मलयशीतलाः । उत्फुल्लकुसुमोद्वान्तमांसलामोदिनो ऽनिलाः
पर्यन्तेषु प्रतीहारास् तस्थुर् धवलवाससः । वृष्टमूकार्कतापान्तमेघमाला इवाद्रिषु
प्रभापीततमःपुञ्जाः पेतुः पुष्पोत्करा भुवि । मेघमारुतविध्वस्तास् तारकानिकरा इव
आस्थानं पूरयाम् आसुर् महीपालानुयायिनः । उत्फुल्लकमलाकीर्णं हंसा इव सरोवरम्
सिंहासनसमीपस्थे हैमवेत्रासने शुभे । उपाविशद् असौ लीला लीलेव स्मरचेतसि
ददर्श तान् नृपान् भृत्यान् सर्वान् एव यथास्थितान् । गुरून् आर्यान् सखीन् भृत्यान् सुहृत्सम्बन्धिबान्धवान्
सकलम् एव हि पूर्ववद् एव सा समवलोक्य मुदं परमां ययौ । नृपतिराष्ट्रजनः खलु जीवतीत्य् उदितया च बभौ शशिवच् छ्रिया
इत्थं विनोदयामीदं दुःखितं चित्तम् इत्य् अलम् । बोधयित्वेङ्गितैर् भूपान् आस्थानाद् उत्थिताथ सा
प्रविश्यान्तःपुरं भर्तुः पार्श्वे ऽन्तःपुरमण्डपे । विवेश पुष्पगुप्तस्य चिन्तयाम् आस चेति सा
अहो विचित्रा मायेयम् एते ऽस्मत्पुरमानवाः । बहिर् अन्तश् चिदादर्शे तत्र चेह च संस्थिताः
तालीतमालहिन्तालमालिता गिरयो ऽप्य् अमी । यथा तत्र तथेहापि बत मायेयम् आतता
आदर्शे बहिर् अन्तश् च यथा शैलो ऽनुभूयते । बहिर् अन्तश् चिदादर्शे तथा सर्गो ऽनुभूयते
अत्र भ्रान्तिमयस् सर्गः कस् स्यात् कः पारमार्थिकः । इति पृच्छामि वागीशीम् अभ्यर्च्योत्तमसंशयम्