पश्चिमाब्धितटीलोकवर्णितास्तमयक्रमम् । असङ्ख्यबद्धभूपालकराकीर्णाखिलाजिरम्
यज्ञवाटपठद्विप्रजिततूर्योग्रनिस्स्वनम् । वन्दिकोलाहलोल्लासप्रतिश्रुद्घनकन्दरम्
गेयवाद्योद्यतध्वानप्रध्वनद्गगनान्तरम् । हयहस्तिरथावारिरजोमेघघनाम्बरम्
पुष्पकर्पूरधूमोत्थगन्धामोदितपर्वतम् । सर्वमण्डलसम्भाररचितानेकशासनम्
यशःकर्पूरजलधिसुशुक्लाम्बरपर्षदम् । रोदसीस्तम्भभूतैकस्वप्रभावजितार्ककम्
आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् । नानानगरनिर्माणसोद्योगस्थपतीश्वरम्
पपाताथ महारम्भां सा तां नरपतेस् सभाम् । व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम्
भ्रमन्तीं तत्र ताम् अग्रे ददृशुस् ते न केचन । अन्यसङ्कल्परचितां पुरुषाः कामिनीम् इव
तथा ते तां न ददृशुस् सञ्चरन्तीं पुरोगताम् । अन्यसङ्कल्परचितां मध्ये स्वनगरीं यथा
प्राक्तनान् एव तान् सर्वान् सा ददर्श पुरोगतान् । भूभृतैव समं प्राप्तान् नगरान् नगरान्तरम्
तद्वेशांस् तन्मयाचारांस् तथा तान् एव बालकान् । ता एव बालवनितास् तांस् तान् एव च मन्त्रिणः
तान् एव भुवि भूपालांस् तांस् तान् एव च पण्डितान् । तान् एव नर्मसचिवान् भृत्यांस् तान् एव तादृशान्
अथान्यान् अन्यपूर्वांश् च पण्डितान् सुहृदस् तथा । व्यवहारांस् तथा चान्यान् पौरान् अन्यांस् तथैव च
मध्याह्नकालं दिवसं घनघर्माकुला दिशः । अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि
महीं ह्रदनदीशैलपुरपत्तनमण्डिताम् । नानानगरविन्यासजङ्गलग्रामसङ्कुलाम्
द्विर् अष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् । प्राक्तनीं जनतां सर्वां समस्तान् ग्रामवासिनः
सा तान् आलोक्य ललना चिन्तापरवशाभवत् । ते ऽस्मिन् नगरवास्तव्याः कष्टं सर्वे मृता इति
पुनःप्रज्ञप्तिबोधेन प्राक्तनान्तःपुरान्तरम् । आजगाम ददर्शात्र सार्धरात्रं तथैव तत्
शवरूपं स्वभर्तारं पुष्पसम्भारगोपितम् । निद्राकुलं परिजनसन्निवेशं तथैव तम्
अथ सोत्थापयाम् आस निद्राक्रान्तं सखीजनम् । आह चातीव मे दुःखम् आस्थानं दीयताम् इति
भर्तुस् सिंहासनस्यास्य पार्श्वे तिष्ठाम्य् अहं यदि । पश्यन्ती सभ्यसङ्घातं तत् प्रजीवामि नान्यथा
स राजपरिवारो ऽथ तयेत्य् उक्तो यथाक्रमम् । आसीद् अनिद्रस् सुव्यग्रस् सर्वस् सर्वस्वकर्मसु
पौरान् सभ्यान् समानेतुं ययुर् याष्टीकपङ्क्तयः । व्यवहारं कलयितुम् उर्वीम् अर्ककरा इव
आस्थानभूमिं भृत्याश् च मार्जयाम् आसुर् आदृताः । प्रावृट्पयोदमलिनं खं शरद्वासरा इव
अङ्गनं प्रति दीपौघास् तस्थुः पीततमोऽम्भसः । आश्चार्यदर्शनायेव प्राप्ता नक्षत्रपङ्क्तयः
जनताः पूरयाम् आसुः पूरैर् अजिरभूमिकाः । अब्धीन् प्रलयसंशुष्कान् पुरासर्गे इवाम्भसा
आजग्मुर् मन्त्रिसामन्तास् स्वं स्वं स्थानम् अनिन्दिताः । त्रैलोक्ये पुनर् उत्पन्ने लोकपाला यथा दिशः
ववुर् आकीर्णकर्पूरसान्द्रा मलयशीतलाः । उत्फुल्लकुसुमोद्वान्तमांसलामोदिनो ऽनिलाः
पर्यन्तेषु प्रतीहारास् तस्थुर् धवलवाससः । वृष्टमूकार्कतापान्तमेघमाला इवाद्रिषु
प्रभापीततमःपुञ्जाः पेतुः पुष्पोत्करा भुवि । मेघमारुतविध्वस्तास् तारकानिकरा इव