ज्ञप्तिं भगवतीं देवीं शुद्धज्ञानमहाधिया । दुःखाद् आह्वाययाम् आस सोवच समुपेत्य ताम्
किं स्मृतास्मि त्वया वत्से धत्से किम् इति शोकिताम् । संसारे भ्रान्तयो भान्ति मृगतृष्णाम्बुवन् मुधा
क्व ममाम्ब स्थितो भर्ता किं करोत्य् अथ कीदृशः । समीपं नय मां तस्य नैका शक्नोमि जीवितुम्
चित्ताकाशं चिदाकाशम् आकाशं च तृतीयकम् । तेभ्यश् शून्यतमं विद्धि चिदाकाशं वरानने
शून्यम् एवेदम् अखिलं जगत् तत्र व्यवस्थितम् । अहं त्वम् इति दृश्यात्म नानानानैव निर्वपुः
अभित्तिमयम् एवेदं कल्पनारूपितं जगत् । ज्ञप्तिभामात्रकं देशतुलापूरणवर्जितम्
तच् चिदाकाशकोशात्मा चिदाकाशैक्यभावनात् । अविद्यमानम् अप्य् आशु दृश्यते ऽथानुभूयते
देशाद् देशान्तरप्राप्तौ संविदो मध्यम् एव यत् । निमेषेण चिदाकाशं तद् विद्धि वरवर्णिनि
तस्मिन् निरस्तनिश्शेषसङ्कल्पस्थितिम् एषि चेत् । सर्वात्मकपदं तत् तद् दृष्ट्वा प्राप्नोष्य् असंशयम्
अत्यन्ताभावसंवित्त्या जगतस् त्व् एतद् आप्यते । नान्यथा मद्वरेणाशु त्वं तु प्राप्स्यसि सुन्दरि
इत्य् उक्त्वा सा ययौ देवी दिव्यम् आत्मीयम् आस्पदम् । लीला तु लीलयैवासीन् निर्विकल्पसमाधिभाक्
तत् तत्याज निमेषेण सान्तःकरणपञ्जरम् । स्वदेहं खम् इवोड्डीना निजनीडं विहङ्गमी
ददर्श च स्वभर्तारं तस्मिन्न् एवालयाम्बरे । संस्थितं पृथिवीपालम् आस्थाने बहुराजके
सिंहासनसमारूढं जय जीवेति संस्तुतम् । प्रस्तुतं मण्डलानेककार्यम् आहर्तुम् आदृतम्
पताकामञ्जरीकीर्णराजधानीगृहस्थितम् । पूर्वद्वारस्थितासङ्ख्यमुनिविप्रर्षिमण्डलम्
दक्षिणद्वारगासङ्ख्यललनालोकमण्डलम् । पश्चिमद्वारगासङ्ख्यराजराजेशमण्डलम्
उत्तरद्वारगासङ्ख्यरथहस्त्यश्वसङ्कुलम् । एकभृत्यविनिर्णीतदक्षिणापथविग्रहम्
कर्णाटनाथरचितपूर्वदेशक्रियाक्रमम् । सुराष्ट्राधिपनिर्णीतसर्वम्लेच्छोत्तरापथम्
मालवेशसमाक्रान्तसर्वपाश्चात्यतङ्गणम् । दक्षिणाब्धितटायातलङ्कादूतविनोदितम्
पूर्वाब्धितटमाहेन्द्रसिद्धोक्तगगनापगम् । उत्तराब्धितटायातदूतवर्णितगुह्यकम्
पश्चिमाब्धितटीलोकवर्णितास्तमयक्रमम् । असङ्ख्यबद्धभूपालकराकीर्णाखिलाजिरम्
यज्ञवाटपठद्विप्रजिततूर्योग्रनिस्स्वनम् । वन्दिकोलाहलोल्लासप्रतिश्रुद्घनकन्दरम्
गेयवाद्योद्यतध्वानप्रध्वनद्गगनान्तरम् । हयहस्तिरथावारिरजोमेघघनाम्बरम्
पुष्पकर्पूरधूमोत्थगन्धामोदितपर्वतम् । सर्वमण्डलसम्भाररचितानेकशासनम्
यशःकर्पूरजलधिसुशुक्लाम्बरपर्षदम् । रोदसीस्तम्भभूतैकस्वप्रभावजितार्ककम्
आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् । नानानगरनिर्माणसोद्योगस्थपतीश्वरम्
पपाताथ महारम्भां सा तां नरपतेस् सभाम् । व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम्
भ्रमन्तीं तत्र ताम् अग्रे ददृशुस् ते न केचन । अन्यसङ्कल्परचितां पुरुषाः कामिनीम् इव
तथा ते तां न ददृशुस् सञ्चरन्तीं पुरोगताम् । अन्यसङ्कल्परचितां मध्ये स्वनगरीं यथा
प्राक्तनान् एव तान् सर्वान् सा ददर्श पुरोगतान् । भूभृतैव समं प्राप्तान् नगरान् नगरान्तरम्