किं सम्पदा किं विपदा किं गेहेन किम् ईहितैः । सर्वम् एवासद् इत्य् उक्त्वा तूष्णीम् एको ऽवतिष्ठते
नोदेति परिहासेषु न भोगेषु निमज्जति । न च तिष्ठति कार्येषु मौनम् एवावलम्बते
विलोलालकवल्लर्यो हेलावलितलोचनाः । नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा
एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च । रतिम् आयात्य् अरण्येषु विक्रीतवद् अजन्तुषु
वस्त्रपानाशनादानपराङ्मुखतया तया । परिव्राड्धर्मिणां राजन् सो ऽनुयाति तपस्विनाम्
एक एव वसन् देशे जनशून्ये जनेश्वर । न हसत्य् एकया बुद्ध्या न गायति न रोदिति
बद्धपद्मासनश् शून्यमना वामकरस्थले । कपोलतलम् आदाय केवलं परितिष्ठति
नाभिमानम् उपादत्ते नाभिवाञ्छति राजताम् । नोदेति नास्तम् आयाति सुखदुःखानुवृत्तिषु
न विद्मः किम् असौ जातः किं करोति किम् ईहते । किं ध्यायति किम् आयाति कथं किम् अनुधावति
प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् । विरागं प्रत्यहं याति शरदन्त इव द्रुमः
अनुयातौ तम् एवैतौ राजञ् शत्रुघ्नलक्ष्मणौ । तादृशाव् एव तस्यैव प्रतिबिम्बाव् इवोत्थितौ
भृत्यै राजभिर् अम्बाभिस् स पृष्टो ऽपि पुनः पुनः । उक्त्वा न किञ्चिद् एवेति तूष्णीम् आस्ते निरीहितः
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः । इति पार्श्वगतं भव्यम् अनुशास्ति सुहृज्जनम्
नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च । पुरस्स्थितम् इवास्नेहो नाशम् एवानुपश्यति
रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः । चेष्टितैर् एव काकल्या भूयो भूयः प्रगायति
सम्राड् भवेति पार्श्वस्थं वदन्तम् अनुजीविनम् । प्रलपन्तम् इवोन्मत्तं हसत्य् अन्यमना मुनिः
न प्रोक्तम् आकर्णयति प्रेक्षते न पुरोगतम् । करोत्य् अवज्ञां सर्वत्र सुमहत्य् अपि वस्तुनि
अप्य् आकाशसरोजिन्याम् अप्य् आकाशमहावने । इत्थम् एतत् कथम् इति विस्मयो ऽस्य न जायते
कान्तामध्यगतस्यापि मनो ऽस्य मदनेषवः । न भेदयन्ति दुर्भेदं धारा इव महोपलम्
आपदाम् एकम् आवासम् अभिवाञ्छसि किं धनम् । अनुशास्येति सर्वस्वम् अर्थिने स प्रयच्छति
इयम् आपद् इयं सम्पद् इत्य् अयं कल्पनामयः । मनस्य् अभ्युदितो मोह इति शोकात् प्रगायति
हा हतो ऽहम् अनाथो ऽहम् इत्य् आक्रन्दपरो ऽपि सन् । न जनो याति वैराग्यं चित्रम् इत्य् एव वक्त्य् असौ
रघुकाननसालेन रामेण रिपुघातिना । भृशम् इत्थं स्थितेनैव वयं खेदम् उपागताः
न विद्मः किं महाबाहो तस्य तादृशचेतसः । कुर्मः कमलपत्त्राक्ष गतिर् अत्र हि नो भवान्
राजानम् अथ वा विप्रम् उपदेष्टारम् अग्रगम् । हसन् पशुम् इवाव्यग्रस् सो ऽवधीरयति प्रभो
प्रपञ्चो ऽयम् इह स्फारं जगन्नाम यद् उत्थितम् । नैतद् वस्तु न चैवाहम् इति निर्णीय संस्थितः
नारौ नात्मनि नो मित्रे न राज्ये न च मातरि । न सम्पदापदोर् नान्तस् तस्यास्था न विभोर् बहिः
निरस्तास्थो निराशो ऽसौ निरीहो ऽसौ निरास्पदः । मोहेन च विमुक्तो ऽसौ तेन तप्यामहे वयम्
किं धनेन किम् अम्बाभिः किं राज्येन किम् ईहया । इति निश्चयवान् अन्तः प्राणत्यागमनास् स्थितः
भोगेष्व् आयुषि राज्ये च मित्रे पितरि मातरि । परम् उद्वेगम् आयातश् चातको ऽवग्रहे यथा