नानारत्नतृणानां च स्थलेषु मृदुदीप्तिषु । निर्झरेषु तरत्तारशीकरासारवर्षिषु
शैलानां हेममाणिक्यशिलाफलहकेषु च । देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च
कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च । वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु च
प्रहेलिकाभिर् आख्यानैस् तथैवाक्षरमुष्टिभिः । अष्टापदैर् बहूद्द्योतैस् तथा गूढचतुर्थकैः
नाटकाख्यायिकाभिश् च श्लोकैर् बिन्दुमतीभ्रमैः । देशभाषाविभागैश् च नगरग्रामचेष्टितैः
स्रग्दाममाल्यवलनैर् नानाभरणयोजनैः । लीलाविलोलचलनैर् विचित्ररसभाजनैः
आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः । समालम्भनलीलाभिर् दोलारोहणविभ्रमैः
गृहे कुसुमदोलाभिर् अन्योऽन्यान्दोलनक्रमैः । फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः
नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः । जलकेलिविलासेन परस्परसमुक्षणैः
नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः । सङ्गीतकैस् सङ्कथनैर् वीणामुरजवादनैः
उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु । अन्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा
सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया । एकदा चिन्तयाम् आस शुभसङ्कल्पशालिनी
प्राणेभ्यो ऽपि प्रियो भर्ता ममैष जगतीपतिः । यौवनोल्लासलक्ष्मीवान् कथं स्याद् अजरामरः
भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु । कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्य् अहम्
तथा यतेय क्रमतस् तपोजपयमेहितैः । रजनीशरुची राजा यथा स्याद् अजरामरः
ज्ञानवृद्धांस् तपोवृद्धान् विद्यावृद्धान् अहं द्विजान् । पृच्छामि तावन् मरणं कथं न स्यान् नृणाम् इति
अथानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता । अमरत्वं कथं विप्रा भवेद् इति पुनः पुनः
तपोजपयमैर् देवि समस्तास् सिद्धसिद्धयः । सम्प्राप्यन्ते ऽमरत्वं तु न कदाचन लभ्यते
इत्य् आकर्ण्य द्विजमुखाच् चिन्तयाम् आस सा पुनः । इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः
मरणं भर्तुर् अग्रे मे यदि दैवाद् भविष्यति । तत् सर्वदुःखनिर्मुक्ता संस्थास्ये सुखम् आत्मनि
अथ वर्षसहस्रेण भर्तादौ चेन् मरिष्यति । तत् करिष्ये तथा येन जीवो गेहान् न यास्यति
उद्भ्रमद्भर्तृजीवे ऽस्मिन् निजे शुद्धान्तमण्डपे । भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम्
अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् । जपोपवासनियमैर् आतोषं पूजयाम्य् अहम्
इति निश्चित्य सा नाथम् अनुक्त्वैव वराङ्गना । यथाशास्त्रं चचारोग्रं तपो नियमम् आस्थिता
त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा । देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा
स्नानदानतपोध्याननित्योद्युक्तशरीरिका । सर्वास्तिक्यसदाचारकारिणी क्लेशभारिणी
यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् । तोषयाम् आस भर्तारम् अपरिज्ञाततत्स्थितिम्
त्रिरात्रशतम् एवं सा बाला नियमशालिनी । अनारततपोनिष्ठम् अतिष्ठत् कष्टचेष्टया
त्रिरात्राणां शतेनाथ पूजिता प्रतिमाम् इता । तुष्टा भगवती गौरी वागीशीदम् उवाच ताम्
निरन्तरेण तपसा भर्तृभक्त्यतिशायिना । परितुष्टास्मि ते वत्से गृहाण वरम् ईप्सितम्