अवदाततनुः पुण्या जनताह्लाददायिनी । गङ्गेव गां गता देवनदी हंसविलासिनी
तस्य भूतलपुष्पेषोस् सकलाह्लाददायिनः । परिचर्यां चिरं कर्तुम् अन्या रतिर् इवोदिता
उद्विग्ने प्रोद्विग्ना मुदिता मुदिते समाकुलाकुलिते । प्रतिबिम्बसमा कान्ता सङ्क्रुद्धे केवलं भीता
भूतलाप्सरसा सार्धम् अनन्यवनितापतिः । अकृत्रिमप्रेमरसं स रेमे कान्तया तया
उद्यानवनगुल्मेषु तमालगहनेषु च । पुष्पमण्डपतल्पेषु लतावलयसद्मसु
पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु । वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च
चन्दनद्रुमषण्डेषु सन्तानकतलेषु च । कदम्बनिम्बगेहेषु पारिभद्रोदरेषु च
शैलकन्दरकच्छेषु वातायनपुरेषु च । सरित्तटकटप्रेषु वारणोपरिसद्मसु
ग्रीष्मे तुषारहर्म्येषु लतामण्डपकेषु च । हेममन्दिरवृक्षेषु मुक्तामाणिक्यभित्तिषु
विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु । वसन्तवनजालेषु कूजत्कोकिलमालिषु
नानारत्नतृणानां च स्थलेषु मृदुदीप्तिषु । निर्झरेषु तरत्तारशीकरासारवर्षिषु
शैलानां हेममाणिक्यशिलाफलहकेषु च । देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च
कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च । वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु च
प्रहेलिकाभिर् आख्यानैस् तथैवाक्षरमुष्टिभिः । अष्टापदैर् बहूद्द्योतैस् तथा गूढचतुर्थकैः
नाटकाख्यायिकाभिश् च श्लोकैर् बिन्दुमतीभ्रमैः । देशभाषाविभागैश् च नगरग्रामचेष्टितैः
स्रग्दाममाल्यवलनैर् नानाभरणयोजनैः । लीलाविलोलचलनैर् विचित्ररसभाजनैः
आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः । समालम्भनलीलाभिर् दोलारोहणविभ्रमैः
गृहे कुसुमदोलाभिर् अन्योऽन्यान्दोलनक्रमैः । फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः
नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः । जलकेलिविलासेन परस्परसमुक्षणैः
नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः । सङ्गीतकैस् सङ्कथनैर् वीणामुरजवादनैः
उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु । अन्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा
सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया । एकदा चिन्तयाम् आस शुभसङ्कल्पशालिनी
प्राणेभ्यो ऽपि प्रियो भर्ता ममैष जगतीपतिः । यौवनोल्लासलक्ष्मीवान् कथं स्याद् अजरामरः
भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु । कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्य् अहम्
तथा यतेय क्रमतस् तपोजपयमेहितैः । रजनीशरुची राजा यथा स्याद् अजरामरः
ज्ञानवृद्धांस् तपोवृद्धान् विद्यावृद्धान् अहं द्विजान् । पृच्छामि तावन् मरणं कथं न स्यान् नृणाम् इति
अथानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता । अमरत्वं कथं विप्रा भवेद् इति पुनः पुनः
तपोजपयमैर् देवि समस्तास् सिद्धसिद्धयः । सम्प्राप्यन्ते ऽमरत्वं तु न कदाचन लभ्यते
इत्य् आकर्ण्य द्विजमुखाच् चिन्तयाम् आस सा पुनः । इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः
मरणं भर्तुर् अग्रे मे यदि दैवाद् भविष्यति । तत् सर्वदुःखनिर्मुक्ता संस्थास्ये सुखम् आत्मनि