गगनम् इव सुशून्यभेदम् अस्ति त्रिभुवनम् अङ्ग महाचितो ऽन्तर् अस्याः । परमपदमयं समस्तदृश्यं त्व् इदम् इति निश्चयवान् भवानुभूतेः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
जगद् आकाशम् एवेदं यथा हि व्योम्नि मौक्तिकम् । विमले भाति खात्मैव जगच् चिद्गगने तथा
अनुत्कीर्णैव भातीव त्रिजगत्सालभञ्जिका । चित्स्तम्भे न च सोत्कीर्णा न चोत्कर्तात्र विद्यते
समुद्रे ऽन्तर् जलास्पन्दास् स्वभावाद् अच्युता अपि । विदि वेद्या भवन्तीव परे दृश्यविदस् तथा
जलान्तर्गतसूर्याभाजालकारचनान्य् अपि । जगद्भानं प्रति स्थूलान्य् अणुं प्रति यथाचलाः
जगद्भानम् अभानाभं ब्रह्मणो ऽव्यतिरेकतः । जलसूर्यांशुजालं तु व्यतिरेकानुभूतिदम्
अनुभूतान्य् अपीमानि जगति व्योमरूपिणि । पृथ्व्यादीनि न सन्त्य् एव स्वप्नसङ्कल्पयोर् इव
पिण्डग्रहे सद् इत्य् अस्मिन् विज्ञानाकाशरूपिणि । मरुनद्यां जलम् इव न सम्भवति कुत्रचित्
जगत्य् अपिण्डग्राहे ऽस्मिन् गन्धर्वनगरोपमे । मरौ सरिद् इवाभाति दृश्यता भ्रान्तिरूपिणी
स्वप्नाद्रिणेव जगता तुलादेशौ न कौचन । पूरितौ कलनोन्मुक्ता दृश्यश्रीर् व्योम केवलम्
वर्जयित्वाज्ञविज्ञातजगच्छब्दार्थभावनम् । जगद्ब्रह्मखशब्दानाम् अर्थे नास्त्य् एव भिन्नता
इदं त्व् अचेत्यचिन्मात्रभानोर् भानं नभः प्रति । तथा सूक्ष्मं यथा मेघं प्रति सङ्कल्पवारिदः
यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति । तथा जगद् इदं स्वच्छं सङ्कल्पितजगत् प्रति
तस्माद् अचेत्यचिद्रूपं जगद् व्योमैव केवलम् । शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ
तस्मान् न किञ्चिद् उत्पन्नं जगदादीह दृश्यकम् । अनाख्यम् अनभिव्यक्तं यथास्थितम् अवस्थितम्
जगद् एव महाकाशं चिदाकाशम् अभित्तिमत् । तद् देशस्याणुमात्रस्य तुलायाश् चाप्रपूरकम्
आकाशरूपम् एवाच्छं पिण्डग्रहविवर्जितम् । व्योम्नि व्योममयं चित्रं सङ्कल्पपुरवत् स्थितम्
अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् । निस्सन्देहो यथैषो ऽर्थश् चित्ते विश्रान्तिम् एति ते
सद्बोधवृद्धये ब्रह्मन् समासेन वदाशु मे । मण्डपाख्यानम् अखिलं येन बोधो विवर्धते
अभूद् अस्मिन् महीपीठे कुलपद्मो विकासवान् । पद्मो नाम नृपश् श्रीमान् बहुपुत्रो ऽतिकोशवान्
मर्यादापालने ऽम्भोधिर् द्विषत्तिमिरभास्करः । कान्ताकुमुदिनीचन्द्रो दोषतृणहुताशनः
मेरुर् विबुधवृन्दानां यशश्चन्द्रोद्भवार्णवः । सरस् सद्गुणहंसानां कलाकमलभास्करः
शात्रवाम्भोदपवनो मानमातङ्गकेसरी । समस्तविद्यादयितस् सर्वाश्चर्यगुणाकरः
शूरारिसागरक्षोभविलसन्मन्दराचलः । विलासपुष्पौघमधुस् सौभाग्यकुसुमायुधः
लीलालतालास्यमरुत् साहसोत्सवकेशवः । सौजन्यकैरवशशी दुर्लीलालतिकानलः
तस्यासीत् सुभगा भार्या लीला नाम विलासिनी । सर्वसौभाग्यवलिता कमलेवोदितावनौ
सर्वसम्पत्तिललिता लीलामधुरभाषिणी । सानन्दमन्दवलिता द्वितीयेन्दूदयस्मिता
अलकालिमनोहारिवदनाम्भोजशालिनी । शीताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी
लताविलासकुन्दौघहासिनी रसशालिनी । प्रवालहस्ता पुष्पाढ्या मधुश्रीर् इव देहिनी