चित्त्वात् स्वशक्तिकचनं यद् अहम्भावनं चितेः । जीवस् स्पन्दात्मकर्मात्मा भविष्यदभिधो ह्य् असौ
यच् चिच् चित्त्वेन कलनं स्वसम्पाद्याभिधार्थदिक् । व्यवच्छेदविकारैस् तद् भिद्यते ऽतो न विद्यते
चित्स्पन्दरूपिणोर् अस्ति न भेदः कर्तृकर्मणोः । स्पन्दमात्रं भवेत् कर्म स एव पुरुषस् स्मृतः
जीवश् चित्त्वे परिस्पन्दः पुंसां चित्तं स एव च । मनस् त्व् इन्द्रियरूपं सन् नानानानैव गच्छति
शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् । कार्यकारणतादित्वं तस्माद् अन्यन् न विद्यते
अच्छेद्यो ऽहम् अदाह्यो ऽहम् अक्लेद्यो ऽशोष्य एव च । नित्यस् सततगस् स्थाणुर् अचलो ऽहम् इति स्थितम्
विवदन्ते यथा ह्य् अत्र विवदन्तु तथा भ्रमैः । भ्रमन्तो न वयं त्व् एते जाता विगतविभ्रमाः
दृश्ये मूर्ते ऽज्ञसंरूढे विकारादि पृथग् भवेत् । नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि
चित्तरुश् चेत्यरसतश् शक्तीः कालादिनामिकाः । तनोत्य् आकाशविशदाश् चिन्मधुश्रीस् स्वमञ्जरीः
स्वयं विचित्रं स्फुरति चित्कर्मुकम् अनाहतम् । स्वयं विचित्रं कचति चिद्रत्नम् अपकारणम्
स्वयं विलक्षणस्पन्दश् चिद्वायुर् अजडात्मकः । स्वयं विचित्रवलनं चिद्वारि न निखातगम्
स्वयं विचित्रधातूच्चैश् चिच्छृङ्गम् अपनिर्मितम् । स्वयं चित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता
स्वयं सदैव प्रकटश् चिदालोको ऽमलात्मकः । स्वयम् अस्तङ्गतेवाज्ञे ज्ञे ज्ञानाद् उदिता चितिः
स्वयं जडेषु जाड्येन पदं सौषुप्तम् आगता । स्वयं स्पन्दि तथास्पन्दि चित्त्वाच् चितिमहानभः
चित्प्रकाशप्रकाशो हि जगद् अस्ति च नास्ति च । चिदाकाशैकशून्यत्वं जगद् अस्ति च नास्ति च
चिदालोकमहारूपं जगद् अस्ति च नास्ति च । चिन्मारुतघनस्पन्दो जगद् अस्ति न चास्ति च
चिद्घनध्वान्तकृष्णत्वं जगद् अस्ति च नास्ति च । चिदर्कालोकदिवसो जगद् अस्ति न चास्ति च
चित्कज्जलरजश्शैलपरमाणुर् जगद्भ्रमः । चिदग्न्यौष्ण्यं जगल्लेखा जगच् चिच्छङ्खशुक्लता
जगच् चिच्छैलजठरं चिज्जलद्रवता जगत् । जगच् चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत्
जगच् चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् । जगच् चित्सर्पिषि स्नेहो वीचिश् चित्सरितो जगत्
जगच् चित्क्षौद्रमाधुर्यं जगच् चित्कनकाङ्गदम् । जगच् चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत्
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः । अत्र भेदविकारादि न खे मलम् इव स्थितम्
इतीदं सन्मयत्वेन सद् असद् भुवनत्रयम् । अविकल्प्यतदात्मत्वात् सत्तासत्ते तद् एव वा
अवयवावयविताशब्दार्थौ शशशृङ्गवत् । अनुभूत्यपलापाय कल्पितौ यैर् धिग् अस्तु तान्
न विद्यते जगद् यत्र साद्रिद्यूर्वीनदीश्वरम् । चिदेकत्वात् प्रसङ्गस् स्यात् कस् तत्रेतरविभ्रमे
शिलाहृदयपीनापि स्वाकाशविशदैव चित् । धत्ते ऽन्तर् अखिलं शान्तं सन्निवेशं यथा शिला
पदार्थनिकराकाशे त्वम् आकाशलवोपमः । त्वत्तामत्तात्मतातत्तासत्तोल्लेखा न सन्ति ते
पल्लवान्तरलेखौघसन्निवेशवद् आततम् । अन्यानन्यात्मकम् इदं धत्ते ऽन्तश् चित् स्वभावतः
समस्तकारणौघानां कारणादिपितामहम् । स्वभावतो ऽकारणात्म चित्त्वं विद्ध्य् अनुभूतितः
न चासत्त्वम् अचेत्यायाश् चितो वाचापि सिध्यति । यद् अस्ति तद् उदेतीति दृष्टं बीजाद् इवाङ्कुरम्