यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति । न चास्य ज्ञायते तत्त्वम् अबोधस्यैवम् एव हि
एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः । सर्वशक्तिर् अनाद्यन्तं महाचित्साररूपधृत्
सर्वानन्ततया त्व् अस्य न काचिद् भेदकल्पना । विद्यते या हि कलना सा तद् एवानुभूतितः
एवम् एतत् कथं ब्रह्मन्न् एकजीवेच्छयाखिलाः । जगज्जीवा न युज्यन्ते महाजीवैकतावशात्
महाजीवात्म तद् ब्रह्म सर्वशक्तिमयात्मकम् । स्थितं यथेच्छम् एवेह निर्विभागं निरन्तरम्
यद् एवेच्छति तत् तस्य भवत्य् आशु महात्मनः । पूर्वं तु नश्यतीच्छा चेद् अतो द्वित्वम् उदेति तत्
पश्चाद् द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः । अनेनेत्थं हि भवतीत्य् एवं तेन क्रियाक्रमः
शक्त्याद्यया तया ब्राह्म्या नियमो यः प्रकल्पितः । तं विना नोदयो ऽन्यासां प्रधानेच्छैव रोहति
यस्या जीवाभिधानायाश् शक्त्या येच्छा फलत्य् असौ । प्रधानशक्तिनियमानुष्ठानेन विना तु न
प्रधानशक्तिनियमस् सुप्रतिष्ठो भवेन् न चेत् । तत् फलं शक्त्यशक्तित्वान् नेहितानां क्वचिद् भवेत्
एवं ब्रह्म महाजीवो विद्यते ऽन्तादिवर्जितः । जीवत् कोटिमहाकोटीभवत्य् अथ न किञ्चन
चेत्यसंवेदनाज् जीवो भवत्य् आयाति संसृतिम् । तदसंवेदनाद् रूपं शमम् आयाति संसृतेः
एवं कनिष्ठजीवानां ज्येष्ठजीवक्रियाक्रमैः । समुदेत्य् आद्यजीवत्वं ताम्राणाम् इव हेमता
अत्रानन्ते पराकाशे इत्थम् एष गणो ऽप्य् असन् । खात्मैव सन्न् इवोदेति चिच्चमत्करणात्मकः
स्वयम् एव चमत्कारो यस् समागम्यते चिता । भविष्यन्नामदेहादि तद् अहम्भावनं विदुः
चितो यस् स्याच् चिदालोकस् तन्मयत्वाद् अनन्तकः । स एष भुवनाभोग इति तस्याः प्रबिम्बति
परिणामविकारादिशब्दैस् सैव चिद् अव्यया । तादृग्रूप्याद् अभेद्यापि स्वशक्त्यैव विबुध्यते
अविच्छिन्नविलासात्म स्वतो यत् स्वदनं चितः । अचेत्यस्य प्रकाशस्य जगद् इत्य् एव तत् स्थितम्
आकाशाद् अपि सूक्ष्मैषा या शक्तिर् वितता चितः । सा स्वभावत एवैनाम् अहन्तां परिपश्यति
आत्मन्य् आत्मात्मनैवास्या यत् प्रस्फुरति वारिवत् । जगदन्तम् अहन्ताणुं तद् एवासौ प्रपश्यति
चमत्कारकरी चारु यच् चमत्कुरुते चितिः । इयं स्वात्मनि तस्यैव जगन्नाम ततं कृतम्
चितश् चित्त्वम् अहङ्कारस् सैव राघव कल्पना । तन्मात्रादि चिद् एवातो द्वित्वैकत्वे क्व संस्थिते
जीवहेताव् असन्त्यागे त्वं चाहं चेति सन्त्यज । शेषं सदसतोर् मध्ये भवेत्य् अर्थात्मको भवेत्
चिता यथादौ कलिता स्वसत्ता सा तथोदिता । अभिन्ना दृश्यते व्योम्नस् सत्तासत्ते ऽथ वेद्म्य् अहम्
चित्खं खं जगदीहाः खं खम् अब्धिविबुधाचलाः । खाकारचिच्चमत्काररूपत्वान् नान्यद् अस्ति हि
यो यद्विलासस् तस्मात् स न कदाचन भिद्यते । अपि सावयवात् तत्त्वात् कैवानवयवे कथा
चितेर् नित्यम् अचेत्यायाश् चिन् नास्त्य् अवितताकृतेः । यद् रूपं जगतो रूपं तत् तत्स्फुरणरूपिणः
मनो बुद्धिर् अहङ्कारो भूतानि गिरयो दिशः । इति पर्यायरचना चितस् तत्त्वाज् जगत्स्थितेः
चितश् चित्त्वं जगद् विद्धि नाजगच् चित्त्वम् अस्ति हि । अजगत्त्वाद् अचिच् चित् स्याद् भावाभेदाज् जगत् कुतः
चितेर् मरिचबीजस्य निजा यान्तश् चमत्कृतिः । सैवैषा जीवतन्मात्रमात्रं जगद् इति स्थिता