किं स्यात् परिमितो जीवराशिर् आहो अनन्तकः । आहोस्विद् अस्त्य् अनन्तात्मा जीवपिण्डो ऽचलोपमः
धाराः पयोमुच इव शीकरा इव वारिधेः । कणास् तप्तायस इव कस्मान् निर्यान्ति जीवकाः
इति मे भगवन् ब्रूहि जीवजालविनिर्णयम् । ज्ञातम् एतन् मया प्रायस् तद् एव प्रकटीकुरु
एक एव न जीवो ऽस्ति राशीनां सम्भवः कुतः । शशशृङ्गं समुड्डीय प्रयातीतीव ते वचः
न जीवो ऽस्ति न जीवानां राशयस् सन्ति राघव । न चैकः पर्वतप्रख्यो जीवपिण्डो ऽस्ति कश्चन
जीवशब्दार्थकलनास् समस्तकलनान्विताः । न च काश्चन सन्तीति निश्चयो ऽस्तु तवाचलः
शुद्धं चिन्मात्रम् अमलं ब्रह्मास्तीह हि सर्वतः । तद् यथा सर्वशक्तित्वाद् विन्दते यां स्वयं कलाम्
चिन्मात्रानुक्रमेणैव सम्प्रफुल्तां लताम् इव । ननु मूर्ताम् अमूर्तां वा ताम् एवाशु प्रपश्यति
जीवो बुद्धिः क्रियास्पन्दो मनो द्वित्वैक्यम् इत्य् अपि । स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने
साबुद्धैवं भवत्य् एव भवेद् ब्रह्मैव बोधतः । अबोधः प्रेक्षया याति नाशं न तु स बुध्यते
यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति । न चास्य ज्ञायते तत्त्वम् अबोधस्यैवम् एव हि
एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः । सर्वशक्तिर् अनाद्यन्तं महाचित्साररूपधृत्
सर्वानन्ततया त्व् अस्य न काचिद् भेदकल्पना । विद्यते या हि कलना सा तद् एवानुभूतितः
एवम् एतत् कथं ब्रह्मन्न् एकजीवेच्छयाखिलाः । जगज्जीवा न युज्यन्ते महाजीवैकतावशात्
महाजीवात्म तद् ब्रह्म सर्वशक्तिमयात्मकम् । स्थितं यथेच्छम् एवेह निर्विभागं निरन्तरम्
यद् एवेच्छति तत् तस्य भवत्य् आशु महात्मनः । पूर्वं तु नश्यतीच्छा चेद् अतो द्वित्वम् उदेति तत्
पश्चाद् द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः । अनेनेत्थं हि भवतीत्य् एवं तेन क्रियाक्रमः
शक्त्याद्यया तया ब्राह्म्या नियमो यः प्रकल्पितः । तं विना नोदयो ऽन्यासां प्रधानेच्छैव रोहति
यस्या जीवाभिधानायाश् शक्त्या येच्छा फलत्य् असौ । प्रधानशक्तिनियमानुष्ठानेन विना तु न
प्रधानशक्तिनियमस् सुप्रतिष्ठो भवेन् न चेत् । तत् फलं शक्त्यशक्तित्वान् नेहितानां क्वचिद् भवेत्
एवं ब्रह्म महाजीवो विद्यते ऽन्तादिवर्जितः । जीवत् कोटिमहाकोटीभवत्य् अथ न किञ्चन
चेत्यसंवेदनाज् जीवो भवत्य् आयाति संसृतिम् । तदसंवेदनाद् रूपं शमम् आयाति संसृतेः
एवं कनिष्ठजीवानां ज्येष्ठजीवक्रियाक्रमैः । समुदेत्य् आद्यजीवत्वं ताम्राणाम् इव हेमता
अत्रानन्ते पराकाशे इत्थम् एष गणो ऽप्य् असन् । खात्मैव सन्न् इवोदेति चिच्चमत्करणात्मकः
स्वयम् एव चमत्कारो यस् समागम्यते चिता । भविष्यन्नामदेहादि तद् अहम्भावनं विदुः
चितो यस् स्याच् चिदालोकस् तन्मयत्वाद् अनन्तकः । स एष भुवनाभोग इति तस्याः प्रबिम्बति
परिणामविकारादिशब्दैस् सैव चिद् अव्यया । तादृग्रूप्याद् अभेद्यापि स्वशक्त्यैव विबुध्यते
अविच्छिन्नविलासात्म स्वतो यत् स्वदनं चितः । अचेत्यस्य प्रकाशस्य जगद् इत्य् एव तत् स्थितम्
आकाशाद् अपि सूक्ष्मैषा या शक्तिर् वितता चितः । सा स्वभावत एवैनाम् अहन्तां परिपश्यति
आत्मन्य् आत्मात्मनैवास्या यत् प्रस्फुरति वारिवत् । जगदन्तम् अहन्ताणुं तद् एवासौ प्रपश्यति