एतस्मिन्न् अपि सम्पन्ने ब्रह्माण्डाकारिणि भ्रमे । न किञ्चिद् अपि सम्पन्नं न च जातं न दृश्यते
तद् ब्रह्माकाशम् आकाशम् एव स्थितम् अशङ्कितम् । सङ्कल्पनगराकारम् एतत् सद् अपि नैव सत्
अनिर्मितम् अनङ्गं च एतद् खे चित्रम् उत्थितम् । अकृतं चानुभूतं च न सत्यं सत्यवत् स्थितम्
महाकल्पे विमुक्तत्वाद् ब्रह्मादीनाम् असंशयम् । स्मृतिर् न प्राक्तनी काचित् कारणं सा स्वयम्भुवः
तेन यादृक् स्वयम्भूस् स्यात् तादृक् तज्जम् इदं स्मृतम् । अनाद्यनुभवस् त्व् इत्थं य एवावनितादिभिः
स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत् । स्मृतं सद् व्योममात्रात्म सर्वदैवेदृशं जगत्
यत्र यत्र यथा तोये द्रवत्वं नाम विद्यते । तत्र तत्र तथा नान्यस् सर्गो ऽस्ति परमात्मनि
सृष्टिर् एवम् इयं प्रौढा सर्ग एवम् अयं स्थितः । ब्रह्माण्डं नाम भात्य् एव व्योमात्मैवापनिर्मितिः
दृश्यम् एवम् इदं शान्तं खात्म निर्भित्ति निर्भ्रमम् । निराधारं निराधेयम् अद्वैतं चैक्यवर्जितम्
जगत्संविदि जातायाम् अपि जातं न किञ्चन । परमाकाशम् आशून्यम् अच्छम् एव व्यवस्थितम्
सर्वसंहारखे त्व् आसीद् यद् एव तद् अवस्थितम् । नाधेयं तत्र नाधारो न च दृश्यं न द्रष्टृता
ब्रह्माण्डं नास्ति न ब्रह्मा न च ब्रह्माण्डिका क्वचित् । न जगन् नास्ति जगती शान्तम् एवाखिलं स्थितम्
ब्रह्मैव कचति स्वच्छम् इत्थम् आत्मात्मनात्मनि । चित्त्वाद् द्रवत्वात् सलिलम् इवावर्ततयात्मनि
असद् एवेदम् आभाति सद् इवेहानुभूयते । विनश्यत्य् असद् एवान्ते स्वप्ने स्वमरणं यथा
अथ वाजस्वरूपत्वात् सद् एवेदम् अनामयम् । अखण्डितम् अनाद्यन्तं ज्ञानमात्राम्बरोदरम्
आकाश एव परमे प्रथमः प्रजेशो नित्यं स्वयं कचति शून्यतया समानः । स ह्य् आतिवाहिकवपुर् न तु भूतरूपी पृथ्व्यादि तेन न सद् अस्ति यदा न जातम्
इत्थं जगदहन्तादि दृश्यजातं न किञ्चन । अजातत्वाच् च नास्त्य् एव यच् चास्ति परम् एव तत्
परमाकाश एवासौ जीवतां चेतति स्वयम् । निस्स्पन्दाम्भोधिजठरे सलिलं स्पन्दताम् इव
आकाशरूपम् अजहद् एव वेत्तीव दृश्यताम् । स्वप्नसङ्कल्पशैलादाव् इव चिद्वृत्तिर् आन्तरी
पृथ्व्यादिरहितो देहो यो विराडात्मनो महान् । आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः
अक्षयस्वप्नशैलाभस् स्थिरस्वप्नपुरोपमः । चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः
अनिखातमहास्तम्भपुत्रिकौघसमोपमः । ब्रह्माकाशे ऽनिखातात्मा स्वस्तम्भे सालभञ्जिका
आद्यः प्रजापतिः पूर्वं स्वयम्भूर् इति विश्रुतः । प्राक्तनानां स्वकार्याणाम् अभावाद् अपकारणः
महाप्रलयपर्यन्तेष्व् आद्याः किल पितामहाः । मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम्
मोक्तव्य एव कुड्यात्मा दृश्यो ऽदृश्यश् च संस्थितः । न च दृश्यं न च द्रष्टा न स्रष्टा सर्वम् एव च
प्रतिच्छन्दः पदार्थानां सर्वेषाम् एष एव सः । अस्माद् उदेति जीवाली दीपाली दीपकाद् इव
सङ्कल्प एव सङ्कल्पात् किलैति क्ष्मादिवर्जितः । क्ष्मादिमान् इव निष्कुड्यस् स्वप्नात् स्वप्नान्तरं यथा
अस्माद् एव प्रतिच्छन्दाज् जीवास् सम्प्रसरन्त्य् अमी । सहकारिकारणानाम् अभावाच् च स एव ते
सहकारिकारणानाम् अभावे कार्यकारणम् । एकम् एतद् अतो नान्यः परस्मात् सर्गविभ्रमः
ब्रह्मैवाद्यो विराडात्मा विराडात्मैव सर्गता । जीवाकाशस् स एवेत्थं स्थितः पृथ्व्याद्य् असद् यतः