येन स्पृशति सास्य त्वग् यच् छृणोति श्रुतिस् तु सा । येन जिघ्रति तद् घ्राणं स स्वम् आत्मनि पश्यति
तत् तस्य स्वदनं पश्चाद् रसनाम्नोल्लसिष्यति । यत् स्पन्दति स तद् वायुचेष्टाः कर्मेन्द्रियव्रजम्
रूपालोकमनस्कारजातम् इत्य् एव भावयन् । आतिवाहिकदेहात्मा तिष्ठत्य् अम्बरम् अम्बरे
एवम् उच्छूनतां तस्मिन् भावयंस् तेजसः कणे । असत्यं सत्यसङ्काशं ब्रह्मास्ते जीवशब्दधृत्
इत्थं स जीवशब्दार्थकलनाकुलतां गतः । आतिवाहिकदेहात्मा चित्तदेहाम्बराकृतिः
स्वकल्पनात आकारम् अण्डसंस्थं प्रपश्यति । कश्चिज् जलगतं वेत्ति कश्चित् सम्राट्स्वरूपिणम्
भाविब्रह्माण्डकलनं पश्यत्य् अनुभवत्य् अपि । आत्मगर्भगृहं चित्ताद् यथा सङ्कल्पितात्मकः
देशकालक्रियाद्रव्यकलनावेदनं स तत् । भावयञ् शब्दनिर्माता शब्दैर् बध्नाति कल्पितैः
आतिवाहिकदेहो ऽसाव् इत्य् असत्ये जगद्भ्रमे । असत्य एव कचति स्वप्नेषूड्डयनं यथा
इत्य् अनुद्भूत एवासौ स्वयम्भूस् स्वयम् उत्थितः । आतिवाहिकदेहात्मा प्रभुर् आद्यः प्रजापतिः
एतस्मिन्न् अपि सम्पन्ने ब्रह्माण्डाकारिणि भ्रमे । न किञ्चिद् अपि सम्पन्नं न च जातं न दृश्यते
तद् ब्रह्माकाशम् आकाशम् एव स्थितम् अशङ्कितम् । सङ्कल्पनगराकारम् एतत् सद् अपि नैव सत्
अनिर्मितम् अनङ्गं च एतद् खे चित्रम् उत्थितम् । अकृतं चानुभूतं च न सत्यं सत्यवत् स्थितम्
महाकल्पे विमुक्तत्वाद् ब्रह्मादीनाम् असंशयम् । स्मृतिर् न प्राक्तनी काचित् कारणं सा स्वयम्भुवः
तेन यादृक् स्वयम्भूस् स्यात् तादृक् तज्जम् इदं स्मृतम् । अनाद्यनुभवस् त्व् इत्थं य एवावनितादिभिः
स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत् । स्मृतं सद् व्योममात्रात्म सर्वदैवेदृशं जगत्
यत्र यत्र यथा तोये द्रवत्वं नाम विद्यते । तत्र तत्र तथा नान्यस् सर्गो ऽस्ति परमात्मनि
सृष्टिर् एवम् इयं प्रौढा सर्ग एवम् अयं स्थितः । ब्रह्माण्डं नाम भात्य् एव व्योमात्मैवापनिर्मितिः
दृश्यम् एवम् इदं शान्तं खात्म निर्भित्ति निर्भ्रमम् । निराधारं निराधेयम् अद्वैतं चैक्यवर्जितम्
जगत्संविदि जातायाम् अपि जातं न किञ्चन । परमाकाशम् आशून्यम् अच्छम् एव व्यवस्थितम्
सर्वसंहारखे त्व् आसीद् यद् एव तद् अवस्थितम् । नाधेयं तत्र नाधारो न च दृश्यं न द्रष्टृता
ब्रह्माण्डं नास्ति न ब्रह्मा न च ब्रह्माण्डिका क्वचित् । न जगन् नास्ति जगती शान्तम् एवाखिलं स्थितम्
ब्रह्मैव कचति स्वच्छम् इत्थम् आत्मात्मनात्मनि । चित्त्वाद् द्रवत्वात् सलिलम् इवावर्ततयात्मनि
असद् एवेदम् आभाति सद् इवेहानुभूयते । विनश्यत्य् असद् एवान्ते स्वप्ने स्वमरणं यथा
अथ वाजस्वरूपत्वात् सद् एवेदम् अनामयम् । अखण्डितम् अनाद्यन्तं ज्ञानमात्राम्बरोदरम्
आकाश एव परमे प्रथमः प्रजेशो नित्यं स्वयं कचति शून्यतया समानः । स ह्य् आतिवाहिकवपुर् न तु भूतरूपी पृथ्व्यादि तेन न सद् अस्ति यदा न जातम्
इत्थं जगदहन्तादि दृश्यजातं न किञ्चन । अजातत्वाच् च नास्त्य् एव यच् चास्ति परम् एव तत्
परमाकाश एवासौ जीवतां चेतति स्वयम् । निस्स्पन्दाम्भोधिजठरे सलिलं स्पन्दताम् इव
आकाशरूपम् अजहद् एव वेत्तीव दृश्यताम् । स्वप्नसङ्कल्पशैलादाव् इव चिद्वृत्तिर् आन्तरी
पृथ्व्यादिरहितो देहो यो विराडात्मनो महान् । आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः