आकाशात्मान एवैते सर्व एव स्वयम्भुवः । यथा ते मन्मनोमात्रम् इमे सर्गास् तथैव हि
अहमादिर् अयं सर्गस् त्व् अपरिज्ञानदोषतः । वेताल इव बालानां गतो वै वज्रसारताम्
परिज्ञातस् तु कालेन स्वल्पेनैवोपशाम्यति । वासनातानवात् स्नेहो बन्धौ दूरगते यथा
घनत्वम् अहमाद्य् अस्य तथा सर्गस्य शाम्यति । परिज्ञानाद् यथा स्वप्ननिधेर् आदेयभावना
शाम्यन्तीमाḫ परिज्ञातास् सकला दृश्यदृष्टयः । यथा मरुनदीवेगवारिग्रहणबुद्धयः
महारामायणप्रायशास्त्रप्रेक्षणमात्रतः । एतद् आसाद्यते नित्यं किम् एतावति दुष्करम्
संसारवासनाभावरूपसत्या तु यस्य धीः । मन्दा मोक्षे निराकाङ्क्षा स श्वा कीटो ऽथ वानरः
भोगाभोगẖ किलायं यस् स जीवन्मुक्तबुद्धिना । कीदृशो भुज्यमानस् स्यात् कीदृक् स्यान् मौर्ख्यसेविना
महारामायणप्रायशास्त्रप्रेक्षणमात्रतः । अन्तश् शीतलतोदेति पदार्थेषु हिमोपमा
मोक्षश् शीतलचित्तत्वं बन्धस् सन्तप्तचित्तता । एतस्मिन्न् अपि नार्थित्वम् अहो लोकस्य मूर्खता
अयं प्रकृत्या विषयैर् वशीकृतḫ परस्परं स्त्रीधनलोलुभो जनः । यथार्थसन्दर्शनतस् सुखीभवेन् मुमुक्षुशास्त्रार्थविचारणाद् अतः
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम