ताश् चिराभ्यासवशतस् त्व् आधिभौतिकसंविदम् । प्राप्ता दीर्घानुभवनात् स्वप्ना जाग्रद्दशाम् इव
पिशाचाद्यास् तथा ह्य् एते तथाभूताधिभौतिकाः । तिष्ठन्ति तुष्टमनसस् स्वसंसारविहारिणः
पश्यन्ति काश्चिद् अन्योऽन्यं ग्राम्या ग्रामेयकान् इव । स्वप्नैकलोकवास्तव्या इवैता भूतजातयः
काश्चिद् बहुनरप्राप्तस्वप्ननिर्माणलोकवत् । नान्योऽन्यम् अभिपश्यन्ति नानासंस्थानसंस्थितिम्
स्थिता यथैता जगति पिशाचाद्याẖ कुजातयः । प्रायस् तथैताẖ कुम्भाण्डयक्षप्रेतादयस् स्थिताः
यथा यत्रेह वै नागा जलं तत्रैव तिष्ठते । तथा यत्र पिशाचाद्यास् तमस् तत्रावतिष्ठते
मध्याह्ने ऽपि पिशाचश् चेद् अजिरे तिष्ठति स्वयम् । तत् तस्यान्धं तमस् तत्र सन्निधानं करोत्य् अलम्
न निहन्ति च तद् भानुर् न चान्यस् तत् प्रपश्यति । स एव चानुभवति पश्य मायाविजृम्भितम्
अविनाभावि चन्द्रादेस् तैजसं मण्डलं यथा । पिशाचादेर् अनन्यात्म तामसं मण्डलं तथा
यान्ति तेजस्य् अनोजस्त्वं तमस्य् ओजḫप्रधानताम् । उलूकवत् पिशाचाद्या आ सृष्टेस् तत्स्वभावतः
एषा पिशाचादिजनस्य जातिḫ प्रोक्ता मया ते समयानपेता । पिशाचतुल्यस् सुरलोकपाललोकेषु जातो ऽहम् इति प्रसङ्गात्
ततश् चिदाकाशवपुर् भूतपञ्चकवर्जितः । विहरन्न् अहम् आकाशे पिशाच इव संस्थितः
न मां पश्यन्ति चन्द्रार्कशक्रा हरिहरादयः । न देवसिद्धगन्धर्वकिन्नरा नाप्सरोगणाः
नाक्रामन्ति मयाक्रान्ता न च शृण्वन्ति मद्वचः । इत्य् अहं मोहम् आपन्नो विक्रीत इव सज्जनः
अथ चिन्तितवान् अस्मि सत्यकामा इमे वयम् । पश्यन्तु मां सुरगणास् तेन तस्मिन् सुरालये
द्रष्टुं प्रवृत्ता माम् अग्रे वास्तव्यास् सर्व एव ते । झगित्य् एव पुरḫ प्राप्तम् इन्द्रजालद्रुमं यथा
अथ गीर्वाणगेहेषु सम्पन्नो व्यवहार्य् अहम् । यथास्थितसमाचारस् स्थितो निश्शङ्कचेष्टितः
यैर् अविज्ञातवृत्तान्तैर् दृष्टो ऽहम् अजिरोत्थितः । वसिष्ठḫ पार्थिव इति लोकेषु प्रथितो ऽस्मि तैः
वातात् समुदितो दृष्टो यैर् अहं गगनास्पदे । सिद्धैर् वातवसिष्ठाख्यस् तैर् अहं समुदाहृतः
व्योमन्य् आदित्यरश्मिभ्यो दृष्टो ऽहं यैर् नभोगतैः । वसिष्ठस् तैजस इति लोकेषु प्रथितो ऽस्मि तैः
यैर् अहं सलिलाद् दृष्टḫ प्रोत्थितस् तैर् मुनीश्वरैः । प्रोक्तो वारिवसिष्ठो ऽहम् इति मे जन्मसन्ततिः
ततḫ प्रभृति लोके ऽहं पार्थिवḫ प्रथितẖ क्वचित् । अम्मयẖ क्वचिद् अन्येषां तैजसो मारुतẖ क्वचित्
अथ कालेन मे तत्र तस्मिन्न् एवातिवाहिके । आधिभौतिकता देहे रूढा गूढान्तरिक्षता
यद् एतद् आतिवाहित्वम् आधिभौतिकता च खम् । द्वयम् अप्य् एतद् एकात्म ततẖ कचति मे चितिः
एवमात्मकचिद्व्योमकचनात्माप्य् अहं नभः । परम् एव निराकारं युष्मास्व् आकारवान् अपि
जीवन्मुक्तो व्यवहरन्न् अप्य् आस्ते ब्रह्मखात्मकः । तथैव देहमुक्तो ऽपि तिष्ठति ब्रह्ममात्रकम्
मम न ब्रह्मतापेति तादृग् व्यवहरन्न् अपि । असम्भवाद् अन्यदृशो युष्मदादिष्व् अहं त्व् अहम्
यथाज्ञस्य स्वप्ननरे निर्जन्मनि निराकृतौ । आधिभौतिकताबुद्धिस् तथा मे जगतो ऽपि च
एवम् एवावभासन्ते सर्व एव स्वयम्भुवः । सर्गाश् च न तु जायन्ते प्रजाता इव चोदिताः
एष सो ऽहम् इहाकाशवसिष्ठḫ पुष्टताम् इव । गतो ऽद्य स्वात्मनो ऽभ्यासाद् भवतां चाभवस्थितिः