अभिन्नयोर् एव भृशं शून्यत्वाम्बरयोर् इव । ऐकात्म्येनैव लसतोḫ पवनस्पन्दयोर् इव
वेत्ति भूतमयत्वं तन् मिथ्यैव न तु वास्तवम् । तथा यथा त्वं सङ्कल्पपुरुषस्य सतो ऽसतः
ततश् शरीरधातूनां तेन पृथ्व्यादिकाẖ कृताः । अभिधाḫ पञ्च चित्षष्ठा जगद् इत्य् एव तास् स्थिताः
यथा त्व् असत्य एवायं सङ्कल्पस् सत्य एव ते । तथासाव् आत्मसङ्कल्पं सत्यम् एवानुभूतवान्
स स्वयं चिन्मयाकाशस् तत्सङ्कल्पश् चिदम्बरम् । अतस् स्वप्नो जगत् सर्वं क्व तौ नाशोद्भवौ स्थितौ
यथैव तन्मनस् सत्यं तदंशास् सत्यम् एव ते । तथैव तत्कृताश् चन्द्ररुद्रार्केन्द्रमरीचयः
एवंस्थिते जगज्जालं तन् मनोराज्यम् उच्यते । तच् च शून्यं निरालम्बम् आकाशम् अघनं चिति
यथा स्वप्नपुरं व्योम सङ्कल्पाद्रिर् यथा नभः । तथा ब्रह्म जगच् चैव खम् एवाच्छम् अनाकृति
एवम् आभासमात्रस्य कचतो ऽनिशम् अव्ययम् । सर्गादिमध्यान्तदृशो मुधैवात्रोदितास् स्थिताः
किं चिदाकाशकोशस्य तव वा मम वानघ । जगतो वापि जायेत किं वा नश्यति मे वद
तत् किमर्थम् अनर्थाय निरर्थकम् अपार्थकाः । कस्माद् अभ्युदिता ब्रूहि रागद्वेषभयादयः
वस्तुतो ऽङ्ग न सर्गादिर् न सर्गो नाप्य् असर्गता । विद्यते सकृदाभातम् इदम् इत्थं सद् एव तत्
अशून्ये विपुलाभोगे स्वच्छचिज्जलपूरिते । कलनापङ्ककलिले भविष्यच्चित्तदर्दुरे
अन्तरिक्षाक्षयक्षेत्रे खात्मनो गगनात्मिका । तस्माद् बीजाद् इयं जाता भूरिभूतशिलावलिः
नास्ति किञ्चिद् इह क्षेत्रं व्युप्तं च न च किञ्चन । न बीजम् अस्ति नो जातं किञ्चित् सर्वं च संस्थितम्
याश् शिलावलयस् त्व् अत्र पुष्टास् ता विबुधादयः । यास् तु वर्णोज्ज्वला एतास् तास् स्थिता बुद्धबुद्धयः
यास् त्व् अर्धपक्वास् ता एता नरनागादिजातयः । यास् त्व् आश्याना रजोनष्टास् ताẖ क्रिमिस्थावरादयः
यास् त्व् अगुर्व्यḫ फलैर् हीनाश् शून्याकाराẖ क्षयं गताः । अशरीराश् शरीरिण्यस् ताḫ पिशाचादिकास् स्मृताः
न हि सङ्कल्पिनस् स्वेच्छा क्वचित् पर्यनुयुज्यते । तास् तथेच्छा विरिञ्चस्य तथा राम तदोदिताः
सर्वा एव चिदाकाशरूपिण्यो भूतजातयः । आतिवाहिकदेहिन्यḫ पृथ्व्यादिरहितात्मिकाः
ताश् चिराभ्यासवशतस् त्व् आधिभौतिकसंविदम् । प्राप्ता दीर्घानुभवनात् स्वप्ना जाग्रद्दशाम् इव
पिशाचाद्यास् तथा ह्य् एते तथाभूताधिभौतिकाः । तिष्ठन्ति तुष्टमनसस् स्वसंसारविहारिणः
पश्यन्ति काश्चिद् अन्योऽन्यं ग्राम्या ग्रामेयकान् इव । स्वप्नैकलोकवास्तव्या इवैता भूतजातयः
काश्चिद् बहुनरप्राप्तस्वप्ननिर्माणलोकवत् । नान्योऽन्यम् अभिपश्यन्ति नानासंस्थानसंस्थितिम्
स्थिता यथैता जगति पिशाचाद्याẖ कुजातयः । प्रायस् तथैताẖ कुम्भाण्डयक्षप्रेतादयस् स्थिताः
यथा यत्रेह वै नागा जलं तत्रैव तिष्ठते । तथा यत्र पिशाचाद्यास् तमस् तत्रावतिष्ठते
मध्याह्ने ऽपि पिशाचश् चेद् अजिरे तिष्ठति स्वयम् । तत् तस्यान्धं तमस् तत्र सन्निधानं करोत्य् अलम्
न निहन्ति च तद् भानुर् न चान्यस् तत् प्रपश्यति । स एव चानुभवति पश्य मायाविजृम्भितम्
अविनाभावि चन्द्रादेस् तैजसं मण्डलं यथा । पिशाचादेर् अनन्यात्म तामसं मण्डलं तथा
यान्ति तेजस्य् अनोजस्त्वं तमस्य् ओजḫप्रधानताम् । उलूकवत् पिशाचाद्या आ सृष्टेस् तत्स्वभावतः