केचित् स्वप्ननरप्रख्याẖ केचित् पवनदेहकाः । केचिद् भ्रमात्मका एव सर्वे बुद्धिमनोमयाः
ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो । आकाशशून्यवपुषḫ पश्यन्त्य् आकृतिम् आत्मनः
शीतातपादिविहितं सुखं दुẖखं विदन्ति च । पातुम् अत्तुम् अवष्टब्धुम् ईहन्ते शक्नुवन्ति नो
इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः । मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः
सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा । दृश्यन्ते ऽपि च गृह्यन्ते कदाचित् केनचित् क्वचित्
देवयोनिर् हि सा तेन केचिद् देवोपमर्द्धयः । केचिन् नरसमश्रीकाẖ केचिन् नागसमर्द्धयः
श्वसृगालोपमाẖ केचिद् ग्रामजङ्गलवासिनः । कुल्यावकररथ्यासु वसन्ति निरयेषु च
एतद् आस्पदम् एतेषाम् इत्याकाराḫ प्रकीर्तिताः । पिशाचा एवमाचारा जन्मैषां श्रूयताम् इदम्
अचेत्यचिन्मयं ब्रह्म सर्वशक्तिस्वभावतः । यत् स्थितं बुद्धम् एवान्तश् चेत्यं सङ्कल्पयत् त्व् इव
तज् जीवं विद्धि स प्रौढस् त्व् अहङ्कार इति स्मृतः । सो ऽहङ्कारस् स्मृतḫ पुष्टो मन इत्य् उदितात्मभिः
स एष कथ्यते ब्रह्मा सङ्कल्पाकाशरूपवान् । असद् एवासतो बीजं जगतो विगताकृति
एवं मनस् स्थितो ब्रह्मा सदेहो ऽप्य् अमलं नभः । तत् स्वप्नपुरुषाकारस् सन्न् एवासद्वपुस् सदा
पृथ्व्यादिमूर्तिरहितस् त्व् आतिवाहिकदेहवान् । पृथ्व्यादयẖ किल कुतस् सङ्कल्पपुरुषस्य खे
भवन्मनो यथाकाशपुरं पश्यति कल्पितम् । तथा मनो विरिञ्चत्वं पश्यत्य् आत्मनि कल्पितम्
यद् वेत्ति कल्पितं तत् स पश्यत्य् अनुभवत्य् अपि । यो यावन्मात्रकस् तत् स कस्मात् किल न पश्यति
स यत् पश्यति तत् तादृक् शून्यात्मा शून्यम् अम्बरे । ब्रह्म ब्रह्मणि वा ब्रह्मा तद् इदं जगद् उच्यते
तथा स प्रतिभासो ऽस्य चिरकालैकभावनात् । घनीभूतस् स्थितḫ पुष्टस् सुदीर्घस्वप्नसुन्दरः
आतिवाहिकदेहस्य तस्य तच् चिरभावनात् । सर्गानुभवनं भूरि ब्रह्मणो ब्रह्मरूप्य् अपि
गतं प्रकटतोत्कर्षाद् आधिभौतिकदेहताम् । तेनैव सर्ग इत्य् उक्तो भेदसन्ततिभासुरः
स ब्रह्मा ब्रह्ममात्रात्मा ब्रह्ममात्रात्मनोस् तयोः । अजातयोर् एव सदा तद् आत्मजगतोर् द्वयोः
अभिन्नयोर् एव भृशं शून्यत्वाम्बरयोर् इव । ऐकात्म्येनैव लसतोḫ पवनस्पन्दयोर् इव
वेत्ति भूतमयत्वं तन् मिथ्यैव न तु वास्तवम् । तथा यथा त्वं सङ्कल्पपुरुषस्य सतो ऽसतः
ततश् शरीरधातूनां तेन पृथ्व्यादिकाẖ कृताः । अभिधाḫ पञ्च चित्षष्ठा जगद् इत्य् एव तास् स्थिताः
यथा त्व् असत्य एवायं सङ्कल्पस् सत्य एव ते । तथासाव् आत्मसङ्कल्पं सत्यम् एवानुभूतवान्
स स्वयं चिन्मयाकाशस् तत्सङ्कल्पश् चिदम्बरम् । अतस् स्वप्नो जगत् सर्वं क्व तौ नाशोद्भवौ स्थितौ
यथैव तन्मनस् सत्यं तदंशास् सत्यम् एव ते । तथैव तत्कृताश् चन्द्ररुद्रार्केन्द्रमरीचयः
एवंस्थिते जगज्जालं तन् मनोराज्यम् उच्यते । तच् च शून्यं निरालम्बम् आकाशम् अघनं चिति
यथा स्वप्नपुरं व्योम सङ्कल्पाद्रिर् यथा नभः । तथा ब्रह्म जगच् चैव खम् एवाच्छम् अनाकृति
एवम् आभासमात्रस्य कचतो ऽनिशम् अव्ययम् । सर्गादिमध्यान्तदृशो मुधैवात्रोदितास् स्थिताः
किं चिदाकाशकोशस्य तव वा मम वानघ । जगतो वापि जायेत किं वा नश्यति मे वद