स्वप्नानुभूतयो राम दृष्टान्तो ऽत्राविखण्डितः । अनुभूत्यपलापं तु यẖ कुर्यात् तेन ते ऽस्त्व् अलम्
यथा स्वप्ने नरो गेहे व्यवहर्ता न दृश्यते । तथा तदा न दृष्टो ऽस्मि पुरस्स्थो ऽपि नभोगतैः
अहम् अन्यं प्रपश्यामि पार्थिवाकारभावनम् । माम् आतिवाहिकात्मानं न कश्चिद् अपि पश्यति
न दृश्यते विदेहत्वाद् भवान् व्योमवपुर् यदि । तत् कथं तेन सिद्धेन दृष्टो ऽसि कनकावनौ
अस्मदादिर् जनो राम यथासङ्कल्पितार्थभाक् । नासङ्कल्पितम् आप्नोति सत्यकामवपुर् यतः
व्यवहारेषु मग्नेन लौकिकेष्व् अमलात्मना । क्षणाद् विस्मार्यते पुंसा स्वातिवाहिकतात्मनः
मया पश्यतु माम् एष इति सङ्कल्पितं तदा । तेन मां दृष्टवान् एष स्वसङ्कल्पार्थभाजनम्
जनो जरढभेदत्वान् न सङ्कल्पार्थभाजनम् । स एव जीर्णभेदत्वात् सत्यकामत्वभाजनम्
द्वयोस् तु सिद्धयोस् सिद्ध विरुद्धेप्सितयोर् मिथः । अधिकैकावदातात्मा जयी पुरुषयत्नवान्
भ्रमतस् सिद्धसेनासु लोकपालपुरीषु मे । विस्मृता व्यवहारौघैस् सातिवाहिकतात्मनः
यदा तदाहम् अमरैर् व्यवहर्तुं सहाम्बरे । प्रवृत्तो न च मां कश्चित् तत्र पश्यति चञ्चलम्
अत्यन्तम् अप्य् आरटतश् शब्दो न श्रूयते मम । केनचित् सुरलोकेषु स्वप्नपुंस इवानघ
अवष्टब्धुं प्रवृत्तस्य नान्यावष्टब्धये मम । सम्पद्यते किञ्चिद् अपि मनोमननदेहिनः
एवं व्योमपिशाचो ऽहं सम्पन्नो रघुनन्दन । मयानुभूता काप्य् एषा देवागारपिशाचता
पिशाचास् सन्ति लोके ऽस्मिन् किमाकाराẖ किमास्पदाः । किंजातियाẖ किमाचाराẖ कीदृशाẖ कीदृशाशयाः
पिशाचास् सन्ति लोकेषु यादृशास् तान् इमाञ् शृणु । न सभ्यो ऽसौ न यो वक्ति प्रसङ्गापतितं वचः
पिशाचाẖ केचिद् आकाशसदृशाश् शून्यदेहकाः । हस्तपादादिसंयुक्तां पश्यन्ति त्वम् इवाकृतिम्
छायया भयदायिन्या त्व् अन्यार्थभ्रमरूपया । ते चित्ताक्रमणं कृत्वा वेधयन्ति नराशयम्
घ्नन्त्य् अदन्ति पिबन्त्य् आशु लघुसत्त्वं चलं जनम् । बलमांसम् अथो जीवान् हिंसन्त्य् आक्रम्य चित्तकम्
आकाशसदृशाẖ केचित् केचिन् नीहारसन्निभाः । केचित् स्वप्ननराकारास् साकारा अपि खात्मकाः
केचित् स्वप्ननरप्रख्याẖ केचित् पवनदेहकाः । केचिद् भ्रमात्मका एव सर्वे बुद्धिमनोमयाः
ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो । आकाशशून्यवपुषḫ पश्यन्त्य् आकृतिम् आत्मनः
शीतातपादिविहितं सुखं दुẖखं विदन्ति च । पातुम् अत्तुम् अवष्टब्धुम् ईहन्ते शक्नुवन्ति नो
इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः । मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः
सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा । दृश्यन्ते ऽपि च गृह्यन्ते कदाचित् केनचित् क्वचित्
देवयोनिर् हि सा तेन केचिद् देवोपमर्द्धयः । केचिन् नरसमश्रीकाẖ केचिन् नागसमर्द्धयः
श्वसृगालोपमाẖ केचिद् ग्रामजङ्गलवासिनः । कुल्यावकररथ्यासु वसन्ति निरयेषु च
एतद् आस्पदम् एतेषाम् इत्याकाराḫ प्रकीर्तिताः । पिशाचा एवमाचारा जन्मैषां श्रूयताम् इदम्
अचेत्यचिन्मयं ब्रह्म सर्वशक्तिस्वभावतः । यत् स्थितं बुद्धम् एवान्तश् चेत्यं सङ्कल्पयत् त्व् इव
तज् जीवं विद्धि स प्रौढस् त्व् अहङ्कार इति स्मृतः । सो ऽहङ्कारस् स्मृतḫ पुष्टो मन इत्य् उदितात्मभिः