अद्य दीर्घेण कालेन निरहङ्कृतिना मया । स्वर्गापवर्गवैतृष्ण्यम् इदम् आसादितं धिया
चिरम् एकान्तविश्रान्त्यै तेनैतन् नभसḫ पदम् । त्वम् इवागतवान् अत्र दृष्टवान् अस्मि तां कुटीम्
अद्यैतत् सम्परिज्ञातं यद् धि सा भवतẖ कुटी । आगन्ता त्वं पुनश् चेति ज्ञायते क्वाविचारितम्
तदा त्व् अत्र मया ज्ञातं कश्चित् सिद्धो ऽयम् आत्मना । देहं त्यक्त्वेह निर्वाणं गत इत्य् अनुमानिना
एतन् मे भगवन् वृत्तम् एषो ऽस्मीति यथास्थितम् । मया ते कथितं सर्वं यथा जानासि तत् कुरु
सिद्धैर् न यावद् अवधानपरैर् विचार्य निर्णीतम् उत्तमधियान्तर् अशेषवस्तु । तावत् त्रिकालकलनां न विदन्ति काञ्चिद् इत्य् अब्जजादिमनसो ऽपि मुने स्वभावः
अथ हेममयाकाशविस्तीर्णायां महाभुवि । सौहार्दाद् एव सिद्धस्य तस्येदम् अहम् उक्तवान्
त्वया न केवलं यावन् मयापि न विचारितम् । अव्याप्तिरहिता नाम न सम्भवति देहता
यस्मान् मया तवोदन्तं विचार्यासौ स्थिरीकृता । न कुटी व्योम्नि येन त्वम् अभविष्यस् स्थिरस्थितिः
तस्मात् कमलपत्राक्ष यद् गतं गतम् एव तत् । विचार्यातीतम् उत्सृज्य पश्य साम्प्रतिकीं स्थितिम्
उत्तिष्ठ सिद्धलोकेषु निवसावो यथास्थितम् । स्वास्पदस्थितयस् सौम्यास् स्वात्मसिद्धौ सुसाधनम्
इति निर्णीय ताव् आवाम् उत्प्लुतौ तारकोपमौ । समम् एकपुटोड्डीनौ व्योम यन्त्रोपलाव् इव
प्रणामपूर्वम् अन्योऽन्यम् अथ कृत्वा विसर्जनम् । गतस् सो ऽभिमतं देशम् अहं चाभिमतं गतः
इति वृत्तान्तम् अखिलम् उक्तवान् अस्मि राघव । तवाश्चर्यमयीं पश्य संसृतीनां विचित्रताम्
भगवंस् तव देहो ऽसौ पृथिव्याम् अणुतां गतः । भ्रान्तẖ केन शरीरेण सिद्धलोकांस् ततो भवान्
आं स्ंर्तं शृणु किं वृत्तं ततो मम जगद्गृहे । भ्रमतस् सिद्धसेनासु लोकपालपुरीषु च
अहम् इन्द्रपुरं प्राप्तो न कश्चित् तत्र दृष्टवान् । माम् इमं देहरहितम् आतिवाहिकदेहिनम्
अहं किल तदा राम सम्पन्नो गगनाकृतिः । न चाधारो न चाधेयश् चिदाकाशमयात्मकः
न ग्रहीता न च ग्राह्यस् त्वादृशार्थावबोधिनाम् । न चैव देशकालानां क्वचिद् आवृतिकारकः
अरुद्धश् च पदार्थौघैस् स्वयं स्वानुभवोन्मुखः । व्यवहर्ता तथाभूतैर् एव पुम्भिर् मनोमयैः
स्वप्नानुभूतयो राम दृष्टान्तो ऽत्राविखण्डितः । अनुभूत्यपलापं तु यẖ कुर्यात् तेन ते ऽस्त्व् अलम्
यथा स्वप्ने नरो गेहे व्यवहर्ता न दृश्यते । तथा तदा न दृष्टो ऽस्मि पुरस्स्थो ऽपि नभोगतैः
अहम् अन्यं प्रपश्यामि पार्थिवाकारभावनम् । माम् आतिवाहिकात्मानं न कश्चिद् अपि पश्यति
न दृश्यते विदेहत्वाद् भवान् व्योमवपुर् यदि । तत् कथं तेन सिद्धेन दृष्टो ऽसि कनकावनौ
अस्मदादिर् जनो राम यथासङ्कल्पितार्थभाक् । नासङ्कल्पितम् आप्नोति सत्यकामवपुर् यतः
व्यवहारेषु मग्नेन लौकिकेष्व् अमलात्मना । क्षणाद् विस्मार्यते पुंसा स्वातिवाहिकतात्मनः
मया पश्यतु माम् एष इति सङ्कल्पितं तदा । तेन मां दृष्टवान् एष स्वसङ्कल्पार्थभाजनम्
जनो जरढभेदत्वान् न सङ्कल्पार्थभाजनम् । स एव जीर्णभेदत्वात् सत्यकामत्वभाजनम्
द्वयोस् तु सिद्धयोस् सिद्ध विरुद्धेप्सितयोर् मिथः । अधिकैकावदातात्मा जयी पुरुषयत्नवान्
भ्रमतस् सिद्धसेनासु लोकपालपुरीषु मे । विस्मृता व्यवहारौघैस् सातिवाहिकतात्मनः