बहून् कालपरावर्तान् इष्टानिष्टान् सुखं मनाक् । पश्यन् प्रियवियोगांश् च याति जर्जरतां जनः
भोगा विषयसम्भोगा भोगा इव फणावताम् । दशन्त्य् अपि मनाक् स्पृष्टा दृष्टनष्टाḫ प्रतिक्षणम्
आयुर् याति निरायासपदसम्प्राप्तिवर्जितैः । उदर्कभङ्गुराकारैẖ करालैẖ कष्टचेष्टितैः
भोगाशाबद्धतृष्णानाम् अवमानḫ पदे पदे । आलानपरिलीनानां वन्यानाम् इव दन्तिनाम्
सम्पदḫ प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः । कस् तास्व् अहिफणाच्छत्त्रच्छायासु रमते बुधः
सत्यं मनोरमाẖ कामास् सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्
आपातरमणीयेषु रमन्ते विषयेषु ये । अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते
द्वन्द्वदोषोपरुद्धानि दुस्साधान्य् अस्थिराणि च । धनान्य् अभव्यसेव्यानि मम जातु न तुष्टये
आपातमात्रमधुरा दुẖखपर्यवसायिनी । मोहनायैव लोकस्य लक्ष्मीẖ क्षणविनाशिनी
आपातरमणीयानि विमर्दविरसान्य् अति । सुखान्य् आपत्प्रधानानि सङ्गतानि खलैर् इव
शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः । आपातरम्या विषयाḫ पर्यन्तपरितापिनः
अन्तकḫ पर्यवस्थाता जीविते महताम् अपि । चलान्य् आयूंषि शाखाग्रलम्बाम्बूनीव देहिनाम्
जीर्यन्ते जीर्यतẖ केशा दन्ता जीर्यन्ति जीर्यतः । क्षीयते जीर्यतस् सर्वं तृष्णैवैका न जीर्यते
भोगाभोगातिगहने सर्वस्मिन् कायकानने । परम् उल्लासम् आयाति तृष्णैका विषमञ्जरी
बाल्यं यौवनवद् याति यौवनं याति बाल्यवत् । उपमानोपमेयत्वं भङ्गुरत्वे मिथो ऽनयोः
जीवितं गलति क्षिप्रं जलम् अञ्जलितो यथा । प्रवाह इव वाहिन्या गतं न विनिवर्तते
झगित्य् एवागतो देहẖ कुतो ऽप्य् अर्जुनवातवत् । याति पश्यत एवास्तं तरङ्गाम्बुददीपवत्
रम्येष्व् अरम्यता दृष्टा स्थिरेष्व् अस्थिरतापि च । सत्येष्व् असत्यतार्थेषु तेनेह विरसा वयम्
सुखं यद् आत्मविश्रान्तौ गते मनसि सत्त्वताम् । पाताले भूतले स्वर्गे तन् न भोगेषु केषुचित्
अपि सम्पूर्णहृद्यार्थाḫ पञ्चापीन्द्रियवृत्तयः । नावर्जयन्ति माम् एता भृङ्गं चित्रलता इव
अद्य दीर्घेण कालेन निरहङ्कृतिना मया । स्वर्गापवर्गवैतृष्ण्यम् इदम् आसादितं धिया
चिरम् एकान्तविश्रान्त्यै तेनैतन् नभसḫ पदम् । त्वम् इवागतवान् अत्र दृष्टवान् अस्मि तां कुटीम्
अद्यैतत् सम्परिज्ञातं यद् धि सा भवतẖ कुटी । आगन्ता त्वं पुनश् चेति ज्ञायते क्वाविचारितम्
तदा त्व् अत्र मया ज्ञातं कश्चित् सिद्धो ऽयम् आत्मना । देहं त्यक्त्वेह निर्वाणं गत इत्य् अनुमानिना
एतन् मे भगवन् वृत्तम् एषो ऽस्मीति यथास्थितम् । मया ते कथितं सर्वं यथा जानासि तत् कुरु
सिद्धैर् न यावद् अवधानपरैर् विचार्य निर्णीतम् उत्तमधियान्तर् अशेषवस्तु । तावत् त्रिकालकलनां न विदन्ति काञ्चिद् इत्य् अब्जजादिमनसो ऽपि मुने स्वभावः
अथ हेममयाकाशविस्तीर्णायां महाभुवि । सौहार्दाद् एव सिद्धस्य तस्येदम् अहम् उक्तवान्
त्वया न केवलं यावन् मयापि न विचारितम् । अव्याप्तिरहिता नाम न सम्भवति देहता
यस्मान् मया तवोदन्तं विचार्यासौ स्थिरीकृता । न कुटी व्योम्नि येन त्वम् अभविष्यस् स्थिरस्थितिः
तस्मात् कमलपत्राक्ष यद् गतं गतम् एव तत् । विचार्यातीतम् उत्सृज्य पश्य साम्प्रतिकीं स्थितिम्