सुखदुẖखानुभवनाद् भूयो भूयो विवर्तनात् । अनित्यत्वाच् च भावानां स्थिता निष्कौतुका वयम्
भुक्तानि भोगवृन्दानि दृष्टा चानित्यता भृशम् । नोपलभ्यत एवातिविश्रान्तिर् इह कुत्रचित्
भ्रान्तम् उत्तुङ्गशृङ्गासु मेरूपवनभूमिषु । लोकपालपुरीषूच्चैस् सम्प्राप्तं किम् अकृत्रिमम्
सर्वत्र दारुभिर् वृक्षा मांसैर् भूतानि भूर् मृदा । दुẖखान्य् अनित्यता चेति कथम् आश्वास्यते वद
न धनानि न मित्राणि न सुखानि न बन्धवः । शक्नुवन्ति परित्रातुं कालेन कलितं जनम्
जनो जरढजीमूतजालवद् गिरिकुक्षिषु । यात्य् अन्तश्शून्य एवास्तं पांसूपचयपेलवः
नेमे मनोरमाẖ कामा न च रम्या विभूतयः । इदं मत्ताङ्गनापाङ्गभङ्गलोलं च जीवितम्
क्वेव कस्य कथं नाम कुत आश्वासनं मुने । अद्य श्वो वा पदं पापो मृत्युर् मूर्ध्नि नियच्छति
शरीरं पर्णवद् भ्रंशि जीवितं जीर्णसंस्थिति । धीरधीरतया ग्रस्ता रसा नीरसतां गताः
नीतं मनोरथैर् एव नीरसैर् आयुर् आततम् । न मनस्वि चमत्कारकारि किञ्चिद् अपीहितम्
मोहो ऽद्य मान्द्यम् आयातो देहो नेहोपपद्यते । अनास्थैवोत्तमावस्था स्थानास्थैवाधमस्थितिः
आपद् आपतितैवेयं महामोहविधायिनी । नित्यम् इत्य् एव मन्तव्यं सक्तव्यं नेह संसृतौ
विधिभिḫ प्रतिषेधैश् च शास्त्रितैर् अप्य् अशास्त्रितैः । यथेष्टं नीयते लोको जलं निम्नोन्नतैर् इव
विवेकामोदसर्वस्वं चेतẖकुसुमकोशतः । हृत्वा मूर्छां प्रयच्छन्ति विषया विषवायवः
असद् एव तथा नाम दृश्यं सत्ताम् उपागतम् । यथा सद् एवासद्रूपं सम्पन्नम् असद् एव सत्
दोलयन्त्यो ऽवनौ देहं सागरान् सागराङ्गनाः । यथा धावन्ति धावन्ति जनता विषयांस् तथा
धावन्ति विषयं लक्ष्यम् उन्मुक्ताश् चित्तसायकाः । स्पृशन्ति न गुणं भूयẖ कृतघ्नास् सौहृदं यथा
उत्पातवायुर् एवायुर् मित्राण्य् एवातिशत्रवः । बन्धवो बन्धनान्य् एव धनान्य् एवातिनैधनम्
सुखान्य् एवातिदुẖखानि सम्पदḫ परमापदः । भोगा भवमहारोगा रतिर् एव परारतिः
आपदस् सम्पदस् सर्वास् सुखं दुẖखाय केवलम् । जीवितं मरणायैव बत माया विजृम्भते
बहून् कालपरावर्तान् इष्टानिष्टान् सुखं मनाक् । पश्यन् प्रियवियोगांश् च याति जर्जरतां जनः
भोगा विषयसम्भोगा भोगा इव फणावताम् । दशन्त्य् अपि मनाक् स्पृष्टा दृष्टनष्टाḫ प्रतिक्षणम्
आयुर् याति निरायासपदसम्प्राप्तिवर्जितैः । उदर्कभङ्गुराकारैẖ करालैẖ कष्टचेष्टितैः
भोगाशाबद्धतृष्णानाम् अवमानḫ पदे पदे । आलानपरिलीनानां वन्यानाम् इव दन्तिनाम्
सम्पदḫ प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः । कस् तास्व् अहिफणाच्छत्त्रच्छायासु रमते बुधः
सत्यं मनोरमाẖ कामास् सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्
आपातरमणीयेषु रमन्ते विषयेषु ये । अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते
द्वन्द्वदोषोपरुद्धानि दुस्साधान्य् अस्थिराणि च । धनान्य् अभव्यसेव्यानि मम जातु न तुष्टये
आपातमात्रमधुरा दुẖखपर्यवसायिनी । मोहनायैव लोकस्य लक्ष्मीẖ क्षणविनाशिनी
आपातरमणीयानि विमर्दविरसान्य् अति । सुखान्य् आपत्प्रधानानि सङ्गतानि खलैर् इव