करकाशनिपातेन तेन तस्मिन् दिगन्तरे । मयूरḫ प्रावृषीवासौ बुद्धो ऽबोधि वनावनेः
बभाव् आसादिताङ्गश्रीर् विकासितविलोचनः । धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः
प्रबुद्धं सम्प्रशान्तायां वृष्टौ तम् अहम् अग्रतः । अपृच्छं स्वच्छम् आवृत्त्या निवृत्तं परमार्थतः
क्व स्थितो ऽसि करोषीदं किं च भो मुनिनायक । कस् त्वं कस्माद् अलं दूरान् न भ्रंशम् अपि चेतसि
इत्य् उक्तो माम् असौ प्रेक्ष्य संस्मृत्य प्राक्तनीं गतिम् । उवाच वचनं चारु चातको जलदं यथा
प्रतिपालय मे यावत् स्ववृत्तान्तं स्मराम्य् अहम् । कथयिष्यामि ते पश्चात् पाश्चात्यं वृत्तम् आत्मनः
इत्य् उक्त्वा चिन्तयित्वाशु स यथावृत्तम् अक्षतम् । स्मृतवान् सायम् अह्नीव समाचरितम् आत्मनः
माम् अथोवाच वचनं चारु चन्द्रांशुशीतलम् । आह्लादकम् अनिन्द्यं च निरवद्यं सुखोदयम्
अधुना त्वं मया ब्रह्मन् परिज्ञातो ऽभिवादये । अतिक्रमो ऽयं क्षन्तव्यस् स्वभावो हि सतां क्षमा
मुने चिरम् अहं भ्रान्तो देवोपवनभूमिषु । भोगामोदविमोहेषु षट्पदḫ पद्मिनीष्व् इव
दृश्यनद्याम् अथो चित्तजलकल्लोलहेलया । चक्रावर्तोह्यमानेन मयोद्विग्नेन चिन्तितम्
संसारसागरे दृश्यकलोल्लैर् अहम् आकुलः । कालेनोद्वेगम् आयातश् चातको ऽवग्रहे यथा
संविन्मात्रैकसारेषु रम्यं भोगेषु नाम किम् । अवतिष्ठे गतोद्वेगं संविद्व्योम्न्य् एव केवलम्
शब्दरूपरसस्पर्शगन्धमात्राद् ऋते परम् । नेह किञ्चन नामास्ति किम् एतावत्य् अलं रमे
विन्मात्राकाशम् एवैतत् सर्वं विन्मात्रम् एव वा । तत् किम् अत्रासदाकारे रमे नष्टमतिर् यथा
विषया विषवैषम्या वामाẖ कामविमोहदाः । रसा विरसवैरस्या लुठन्न् एषु न को हतः
जीर्णजीवितजम्बालजरच्छफरिकां मतिम् । कायद्रुमगतादातुं जरेच्छति बृहद्बकी
कायो ऽयम् अचिरापायो बुद्बुदो ऽम्बुनिधाव् इव । स्फुरन्न् एव पुरो ऽन्तर्धिं याति दीपशिखा यथा
विविधाकुलकल्लोला चक्रावर्तविधायिनी । मृतिजन्मबृहत्कूला सुखदुẖखतरङ्गिणी
यौवनोल्लासकलिला जराधवलफेनिला । काकतालीययोगेन सम्पन्नसुखबुद्बुदा
व्यवहारमहावाहलेखा जडरयाकुला । रागद्वेषघनोल्लासा भूतलालोलदेहिका
लोभमोहमहावर्ता पातोत्पातविवर्तिनी । हा तप्ता जीविताख्येयं नदी नदनशीतला
अपूर्वाण्य् उपगच्छन्ति तथा पूर्वाणि यान्त्य् अलम् । संसारसरिदम्बूनि सङ्गतानि धनानि च
प्रवृत्ता ये निवर्तन्ते तैर् अलं हतभावकैः । अपूर्वा ये प्रवर्तन्ते तेष्व् अप्य् आस्थेह कीदृशी
सर्वस्यास् सरितो वारि प्रयात्य् आयाति चाकरात् । देहनद्याḫ पयस् त्व् आयुḫ प्रयात्य् आयाति नो पुनः
शतशḫ परिवर्तन्ते प्रतिपिण्डं क्षणं प्रति । कुलालचक्रिकाभावा इव भावा भवाम्बुधौ
चरन्ति चतुराश् चौरा विषमा विषयारयः । हरन्ति भावसर्वस्वं जागर्मि स्वपिमीह किम्
आयुषẖ खण्डखण्डाश् च निपतन्तḫ पुनḫ पुनः । न कश्चिद् वेत्ति कालेन कृतानि दिवसान्य् अहो
इदम् अद्य तथेदं श्वस् तथेदम् इदम् अद्य मे । एवंकलनया लोको गतं प्राप्तं न वेत्त्य् अहो
भुक्तं पीतम् अनन्तासु भ्रान्तं च भवभूमिषु । दृष्टानि सुखदुẖखानि किम् अन्यद् इह साध्यते