बद्धपद्मासनं शान्तं समाधाननिरिङ्गनम् । गुल्फद्वितयमध्यस्थवृषणं विषयातिगम्
मृष्टसोम्यसमाभोगस्कन्धबन्धुरकन्धरम् । सुस्थिरोदरविश्रान्तस्थानकस्थितिसुन्दरम्
नाभीनिकटगोत्तानपाणिद्वितयदीप्तिभिः । हृदयाम्भोजतेजोभिर् बहिस्स्थैर् इव भासितम्
श्लिष्टपक्ष्मेक्षणं क्षीणसर्वेच्छं स्वच्छतां गतम् । सरो निमीलिताम्भोजम् इव सुप्तं दिनात्यये
अविक्षुभितम् आशान्तम् अन्तẖकरणकोटरम् । दधानं धीरया वृत्त्या शान्तोत्पातम् इवाम्बरम्
अपश्यता निजं देहं तं मुनिं पश्यता पुरः । इदं मया तदा तत्र चिन्तितं चारुचेतसा
अयं कश्चिन् महासिद्धस् सम्प्राप्तो ऽस्मिन् दिगम्बरे । चिरायाहम् इवैकान्तविश्रमार्थी महाम्बरम्
समाधियोग्यम् एकान्तं लभेयेतीह चिन्तया । कुटी दृष्टेयम् एतेन सत्यसङ्कल्पशालिना
मदागमनम् एतेन ततो ऽचिन्तयताचलम् । तं मद्देहं शवीभूतम् अपास्येह कृता स्थितिः
तद् इहास्ताम् अयं यामि स्वं लोकम् इति निश्चयी । यावद् गन्तुं प्रवृत्तो ऽस्मि तावत् सङ्कल्पनक्षयात्
सा निवृत्ता कुटी तत्र सम्पन्नं व्योम केवलम् । स सिद्धो ऽथ निराधारḫ पतितो ऽधस् समाधिमान्
स्वप्नसङ्कल्पसंशान्तौ स्वप्नसङ्कल्पपत्तनम् । यथा साशु कुटी नष्टा मत्सङ्कल्पोपशान्तितः
स पपात ततो ध्यानी जलोत्पीड इवाम्बुदात् । खाद् इवानिलनुन्नो ऽब्द इन्दुर् दिव इव क्षये
वैमानिक इवापुण्यश् छिन्नमूल इव द्रुमः । खात् त्यक्त इव पाषाणस् स पपात ततो ऽवनौ
अहं यावद् इयं तावत् कुटिकास्त्व् इति कल्पने । क्षीणे कुटीक्षये जाते स सिद्धḫ पतितẖ क्षणात्
पतता तेन सिद्धेन ततस् सौजन्यकौतुकात् । सार्धम् एवाहम् अगमं नभसो वसुधातलम्
सो ऽपतत् पवनस्कन्धवलनावर्तवृत्तिभिः । सप्तद्वीपसमुद्रान्तगीर्वाणरमणावनौ
प्राणापानोर्ध्वगामित्वात् खाद् यथास्थितम् एव सः । स्पष्ट एवोर्ध्वमूर्धोर्व्यां बद्धपद्मासनो ऽपतत्
न प्रबुद्धो बभूवासाव् इव नूनम् अचेतनः । पाषाणदेह इव वा वातूलात्मेव वा लघुः
मया तदवबोधार्थम् अथ यत्नवता तदा । कृत्वा जलदतां व्योम्नो वृष्टं गर्जितम् ऊर्जितम्
करकाशनिपातेन तेन तस्मिन् दिगन्तरे । मयूरḫ प्रावृषीवासौ बुद्धो ऽबोधि वनावनेः
बभाव् आसादिताङ्गश्रीर् विकासितविलोचनः । धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः
प्रबुद्धं सम्प्रशान्तायां वृष्टौ तम् अहम् अग्रतः । अपृच्छं स्वच्छम् आवृत्त्या निवृत्तं परमार्थतः
क्व स्थितो ऽसि करोषीदं किं च भो मुनिनायक । कस् त्वं कस्माद् अलं दूरान् न भ्रंशम् अपि चेतसि
इत्य् उक्तो माम् असौ प्रेक्ष्य संस्मृत्य प्राक्तनीं गतिम् । उवाच वचनं चारु चातको जलदं यथा
प्रतिपालय मे यावत् स्ववृत्तान्तं स्मराम्य् अहम् । कथयिष्यामि ते पश्चात् पाश्चात्यं वृत्तम् आत्मनः
इत्य् उक्त्वा चिन्तयित्वाशु स यथावृत्तम् अक्षतम् । स्मृतवान् सायम् अह्नीव समाचरितम् आत्मनः
माम् अथोवाच वचनं चारु चन्द्रांशुशीतलम् । आह्लादकम् अनिन्द्यं च निरवद्यं सुखोदयम्
अधुना त्वं मया ब्रह्मन् परिज्ञातो ऽभिवादये । अतिक्रमो ऽयं क्षन्तव्यस् स्वभावो हि सतां क्षमा
मुने चिरम् अहं भ्रान्तो देवोपवनभूमिषु । भोगामोदविमोहेषु षट्पदḫ पद्मिनीष्व् इव