समुत्पादयताशेषलतातरुतृणाङ्कुरान् । भूतलेन रसाकृष्ट्या मयार्थेनेव जृम्भितम्
अवदाततमे शुद्धबोधाकाशमये मयि । जगल्लक्षाणि तिष्ठन्ति न तिष्ठन्ति च कानिचित्
चिति चारुचमत्कारं चमत्कुर्वन्ति यत् स्वतः । स्वचमत्कृतयो ऽन्तस्स्थास् तद् एतास् सृष्टिदृष्टयः
अनुभूतं कृतं दृष्टं यावत् क्वचन किञ्चन । परमार्थचमत्काराद् ऋते नेहोपलभ्यते
प्रत्येकं विश्वरूपात्मा सर्वकर्ता निरामयः । प्रबुद्धश् शुद्धबोधात्मा सर्वं ब्रह्मात्मकं यतः
सर्वस् सर्वत्र सर्वात्मा सर्वगस् सर्वसंश्रयः । एतत् प्रबुद्धविषयम् अप्रबुद्धं न वेद्म्य् अहम्
आकाशकोशविशदात्मनि चित्स्वरूपे येयं स्वता कचति सर्गपरम्परेति । सान्तस् तद् एव किल ताप इवान्तर् ऊष्मा भेदोपलम्भ इति नास्ति सद् अस्त्य् अनन्तम्
अथैवंरूपसंवित्तेḫ परावृत्य प्रयत्नतः । तम् अम्बरकुटीकोशदेशम् आगतवान् अहम्
यावत् तत्र न पश्यामि स्वदेहं क्वचन स्थितम् । पश्यामि केवलं सिद्धं कम् अप्य् अन्यं पुरस् स्थितम्
उपविष्टं समाधाननिष्ठम् इष्टपदं गतम् । सोम्योदयम् इवादित्यं दग्धेन्धनम् इवानलम्
बद्धपद्मासनं शान्तं समाधाननिरिङ्गनम् । गुल्फद्वितयमध्यस्थवृषणं विषयातिगम्
मृष्टसोम्यसमाभोगस्कन्धबन्धुरकन्धरम् । सुस्थिरोदरविश्रान्तस्थानकस्थितिसुन्दरम्
नाभीनिकटगोत्तानपाणिद्वितयदीप्तिभिः । हृदयाम्भोजतेजोभिर् बहिस्स्थैर् इव भासितम्
श्लिष्टपक्ष्मेक्षणं क्षीणसर्वेच्छं स्वच्छतां गतम् । सरो निमीलिताम्भोजम् इव सुप्तं दिनात्यये
अविक्षुभितम् आशान्तम् अन्तẖकरणकोटरम् । दधानं धीरया वृत्त्या शान्तोत्पातम् इवाम्बरम्
अपश्यता निजं देहं तं मुनिं पश्यता पुरः । इदं मया तदा तत्र चिन्तितं चारुचेतसा
अयं कश्चिन् महासिद्धस् सम्प्राप्तो ऽस्मिन् दिगम्बरे । चिरायाहम् इवैकान्तविश्रमार्थी महाम्बरम्
समाधियोग्यम् एकान्तं लभेयेतीह चिन्तया । कुटी दृष्टेयम् एतेन सत्यसङ्कल्पशालिना
मदागमनम् एतेन ततो ऽचिन्तयताचलम् । तं मद्देहं शवीभूतम् अपास्येह कृता स्थितिः
तद् इहास्ताम् अयं यामि स्वं लोकम् इति निश्चयी । यावद् गन्तुं प्रवृत्तो ऽस्मि तावत् सङ्कल्पनक्षयात्
सा निवृत्ता कुटी तत्र सम्पन्नं व्योम केवलम् । स सिद्धो ऽथ निराधारḫ पतितो ऽधस् समाधिमान्
स्वप्नसङ्कल्पसंशान्तौ स्वप्नसङ्कल्पपत्तनम् । यथा साशु कुटी नष्टा मत्सङ्कल्पोपशान्तितः
स पपात ततो ध्यानी जलोत्पीड इवाम्बुदात् । खाद् इवानिलनुन्नो ऽब्द इन्दुर् दिव इव क्षये
वैमानिक इवापुण्यश् छिन्नमूल इव द्रुमः । खात् त्यक्त इव पाषाणस् स पपात ततो ऽवनौ
अहं यावद् इयं तावत् कुटिकास्त्व् इति कल्पने । क्षीणे कुटीक्षये जाते स सिद्धḫ पतितẖ क्षणात्
पतता तेन सिद्धेन ततस् सौजन्यकौतुकात् । सार्धम् एवाहम् अगमं नभसो वसुधातलम्
सो ऽपतत् पवनस्कन्धवलनावर्तवृत्तिभिः । सप्तद्वीपसमुद्रान्तगीर्वाणरमणावनौ
प्राणापानोर्ध्वगामित्वात् खाद् यथास्थितम् एव सः । स्पष्ट एवोर्ध्वमूर्धोर्व्यां बद्धपद्मासनो ऽपतत्
न प्रबुद्धो बभूवासाव् इव नूनम् अचेतनः । पाषाणदेह इव वा वातूलात्मेव वा लघुः
मया तदवबोधार्थम् अथ यत्नवता तदा । कृत्वा जलदतां व्योम्नो वृष्टं गर्जितम् ऊर्जितम्