शरीरनगरीनाशनिर्माणैकपरायणः । रसकिट्टकलाधातुपृथक्करणकोविदः
प्रतिसूक्ष्माणुकं देहे ततो दृष्टं मया जगत् । तत्रेत्थंरूपम् आरम्भि स्फुटम् आभोगि सुस्थिरम्
परमाणुं प्रति त्व् अत्र प्रोह्यन्त इव सर्गकाः । न च किञ्चित् किलोह्यन्ते खाकृतेẖ किम् इवोह्यते
सचन्द्रार्कानिलाग्नीन्द्रयमवैश्रवणेश्वराः । सब्रह्महरिगन्धर्वविद्याधरमहोरगाः
ससागरगिरिद्वीपदिगन्तरमहार्णवाः । सलोकान्तरलोकेशक्रियाकालक्रियाक्रमाः
सस्वर्गभूमिपातालतललोकान्तरान्तराः । सभावाभाववैधुर्यजरामरणसम्भ्रमाः
एवं नाम तदा राम भूतपञ्चकरूपिणा । मया प्रविहृतं तत्र त्रैलोक्यनलिनोदरे
रसḫ पीतो ऽनुभूतश् च क्ष्माजलानिलतेजसाम् । मूलजालेषु वृक्षाणां प्राणिनां च सता मया
रसायनघनाङ्गेषु चन्दनद्रवशोभिषु । लुठितं चन्द्रबिम्बेषु तुषारशयनेष्व् इव
सर्वर्तुवनजालेषु नानामोदानि दिक्ष्व् अलम् । भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये
नतोन्नतासु मृद्वीषु स्वास्तीर्णास्व् अम्बराजिरे । सुप्तं शुभ्राभ्रमालासु नवनीतस्थलीष्व् इव
सुमनḫपत्त्रमृदुषु लीनं लक्ष्मीविलासिषु । सुरसिद्धाङ्गनाङ्गेषु दूरास्तस्मरवासनम्
कृतẖ कुमुदकल्हारकराले नलिनीवने । कोमलẖ कलहंसीभिर् लीलाकलकलारवः
सरत्सरित्सिरासारमूलभूमण्डलान्विताः । अङ्गेषूढास् स्फुरद्भूता लोमालय इवाद्रयः
चतुर्दिग्ग्रथितादीर्घसरित्सूत्रैस् समुद्रकैः । आदर्शैर् इव विश्रान्तम् अङ्गेषु प्रतिबिम्बिभिः
भूतसर्गेण विभ्रान्तं सिद्धविद्याधरादिना । मद्देहे चेतितेनैव मक्षिकायौकरूपिणा
मत्प्रसादेन मुदितैर् लब्धम् अर्कादिभिर् वपुः । कृष्णरक्तसितापीतहरितैर् हारितैर् इव
समुद्रमुद्रया सप्तद्वीपसप्तात्मरूपया । संस्थया स्थापिता भूमिḫ प्रकोष्ठे वलयोपमा
विद्याधरपुरन्ध्रीणां परामृष्टाङ्गयष्टिना । अदृष्टेनैव विहितḫ पुलकोल्लास आत्मना
सरित्सिरासरत्साररसानि सुषिराणि च । जगन्त्य् एवास्थिजालानि ममासन् संस्थितानि च
असङ्ख्यैर् व्योममातङ्गैश् चन्द्रार्कचलचामरैः । उडुम्बरान्तर् मषकैर् इव मद्धृदये स्थितम्
मया पातालपादेन भूतलोदरधारिणा । खमूर्ध्नापि तदा राम न त्यक्ता परमाणुता
दिक्षु सर्वासु सर्वत्र सर्वदा सर्वकारिणा । सर्वात्मनाप्य् असर्वेण शून्यरूपेण संस्थितम्
किञ्चित्त्वं सदकिञ्चित्त्वं साकृतित्वं निराकृति । अनुभूतं सजाड्यं च चेतनत्वम् अलं मया
मैनाकमुग्धमीनस्य सागरस्याप्य् अणुं प्रति । सन्ति सर्गसहस्राणि स्वनुभूतान्य् अथो मया
जगन्त्य् अङ्गे मयोढानि गूढानि प्रकटानि च । प्रतिबिम्बपुराणीव मकुरेणाजडात्मना
एवं जलानिलाग्नित्वं भूमित्वं खात्मना सता । कृतं चितेव स्वप्नेषु बत माया विजृम्भते
अपि तस्याम् अवस्थायां जगन्त्य् आकाशकोशके । मया दृष्टान्य् असङ्ख्यानि परमाणुकणं प्रति
परमाणुं प्रति व्योम परमाणुं प्रति स्थितम् । सर्गवृन्दं यथा स्वप्ने स्वप्नान्तरयुतं पुरम्
खम् एवाहम् अभूवं भूमण्डलं द्वीपकुण्डलम् । सर्वात्मनापि न व्याप्तं किञ्चनापि मया क्वचित्